विवेकचूडामणि
Śloka 215
Glossary
View Book
Verse
श्लोकः
Expand all
1
सत्युक्तं त्वया विद्वन् निपुणोसि विचारणे ।
2
अहमादिविकारास्ते तदभावोयमप्यथ ॥२१५॥
Śloka 214
All Ślokas
Śloka 216
Commentary
व्याख्या
Expand all
1
हे विद्वन् त्वया सत्युक्तं यथाज्ञातं किथितं।
2
विचारणे निपुणोसि पूर्वमुचावतया प्रतीतस्य सर्वस्यापि यथा नभांतं तथा विचारस्य कृतत्वात् इति स्लाघया तद्बुद्धिमूल्लस्य वक्तव्यं सूक्ष्ममाह अहमादिति।
3
ते पूर्वमनुभूताः अहमादिविकाराः अथ इदानीम् अयं तदभावोपि पूर्वं-प्रतीतानां सर्वेषां अभावोपि।
4
एते सर्वे येनानुभूयते पूर्वमनुभूताः तादात्म्येन इदानीं पृथकतया तदभावो वा अनुभूयते।
5
यः स्वयं नानुभूयते तं वेदितारं सर्वसाक्षिं सुसूक्ष्मया बुद्धया एकाग्रया अनन्यविषयकया बुद्धया आत्मानं विद्धि जानीहि ॥२१५॥
Śloka 214
All Ślokas
Śloka 216