विवेकचूडामणि
Śloka 217
216
All
218
Glossary
विवेकचूडामणि
Śloka 217
100%
Commentary — व्याख्या
1
यदतु येनानुभूयते अनुभवविषयीक्रियते तत्तु सः साक्षी यस्य तत्तु तत्साक्षिकं भवेत्
2
सर्वाभावं विना किञ्चिन्नपश्यामीयुक्त्वात् सर्वाभावं विना किञ्चिन्पश्यामीयुक्तमेव भवति इति तस्याभावस्य दर्शनविषयत्वं, तव द्रष्टृत्वं
3
अतः प्रत्यगात्मा स्वयं साक्षात्
4
त्वया दृष्टः सः अभावः स्वतःसाक्षिक इति तत्साक्षिकं त्वं आत्मेति भावः।
5
तत्र हेतुमाह अनन्युभूतार्थं स्वकीयानुभवाविषये अर्थे कस्यापि पुरुषस्य साक्षित्वं नोपपद्यते अकर्तृत्वे सति बोद्धृत्वस्यैव साक्षित्वात् ॥२१७॥
216
All
218
En