विवेकचूडामणि
Śloka 219
218
All
220
Glossary
विवेकचूडामणि
Śloka 219
100%
Commentary — व्याख्या
1
प्रत्यक्रूपतया सर्वान्तरतः सदा एकधा एकरूपेण अहमिमिति अनिदन्तया स्फुरन् स्वयं प्रकाशमानः
2
अहंधीमुखान् अहंकारसायत्तःकरणपदवाच्यस्य देहाद्याकारेण परिणाम-मानत्वात् नानाकारव्ले बोध्यं।
3
इमान् दृश्यपदार्थान् पश्यन् विषयीकुर्वन्।
4
जाग्रत्स्वप्नसुषुप्तिषु सकलप्राणिसिद्धासु तिसृष्ववस्थासु, स्फुटतरं अतिस्फुटं यासौ अविवेकिनः विप्रकर्षपादशब्दप्रयोगः समुज्जृम्भते परिनिष्पतिभासते।
5
नित्यानन्दचिदात्मना स्वयंप्रकाशनित्यानन्दस्वरूपेण हृदि स्फुरितं तमेतं अविदुषां दूरमपि विदुषां प्रत्यक्तया प्रत्यासन्नतरं स्वं स्वात्मानं विद्धि जानीहि ॥२१९॥
218
All
220
En