विवेकचूडामणि
Śloka 228
227
All
229
Glossary
विवेकचूडामणि
Śloka 228
100%
Commentary — व्याख्या
1
इदं प्रकृतं ब्रह्म सत् अस्तीति सत्। परमाद्वैतं परमं च तदद्वैतं च परमाद्वैतं।
2
अद्वैते परमत्वं गुणगुणिभावादिप्रयुक्त-तादात्म्येनापि शून्यत्वं न विद्यते द्वैतं द्वितीयं द्वैतं यत्र तत् भेदशून्यमित्यर्थः।
3
न विद्यते द्वैतं तदिति द्वयोभिन्नत्वेन द्वैतं यत्र तत् भेदशून्यमित्यर्थं।
4
तत्र हेतुः स्वस्मादिति स्वस्मादन्यस्य वस्तुनोऽभावात् स्वस्मादन्यस्य यदन्यत्स्यात् तदा भेदः प्रसज्येत अतः अद्वैतं
5
उच्चावाचप्रपञ्चस्य बहूनां जीवानां च सत्वात् कथं स्वस्मादन्यस्याभावः इति चेत् वस्तुपदेन तेषां परमार्थता नास्तीति ज्ञापितं।
6
कल्पितेन भेदाभावात्। निहि कल्पितसर्पेण सिद्धीतीयत्वं रज्जोः।
7
यदि जगदादेः परमार्थत्वं सदा भासेत तदभावात् न वस्तुत्वं।
8
तदाहं सम्यक्परतत्वबोधशुदशायामिति। इदानीम् अन्यथाविद्यायां सम्यक्परतत्वविषयक-सम्यज्ञानं यदा तस्यां शोभनायामवस्थायां।
9
हि यस्मात् अन्यत्किञ्चिन्नास्ति अतः स्विभवस्वस्वत्वावात् इदं सत् परमाद्वैतमित्यन्वयः ॥२२८॥
227
All
229
En