विवेकचूडामणि
Śloka 230
229
All
231
Glossary
विवेकचूडामणि
Śloka 230
100%
Commentary — व्याख्या
1
मृत्कार्यभूतोपि मृदुपादेयोपि कुम्भः मृदो न भिन्नः
2
सर्वत्र मूले अग्रे पार्श्वयोरवापि मृत्स्वरूपात् मृत्स्वरूपेण सर्वत्र तु मृदिभन्नरूपः नास्ति सर्वत्र तु मृले-मृत्स्वरूपात् मृदिभन्नरूपं नास्तीति भावः।
3
न कुम्भरूपं पृथगस्ति मृदुपयितरेकेण कुम्भस्य रूपं नीलादिकं नास्ति मृदाकारव्यतिरेकेण कुम्भस्याकारो नास्ति
4
आकारविशेषविशिष्टा मृदेव कुम्भइत्युच्यते न तु कुम्भस्य किञ्चिदाकारः।
5
"वाचारम्भणं विकारो नामधेयं" इतिश्रुत्यानुसारेण मृषाकल्पित-नाममात्रः कुम्भः।
6
कुतः कस्मादाद्धतोः पृथगस्ति मृदुपभिन्नरूपं नास्ति। मुदाकारव्यतिरक्ताकारो नास्ति। कुम्भ इति शब्दः परं कल्पितः।
7
तावता एक एव देवदत्तः संकोचितहस्तपादः प्रसारितहस्तपादश्च यथा न भिद्यते तद्वत् कुम्भोपि मृद इत्यर्थः ॥२३०॥
229
All
231
En