विवेकचूडामणि
Śloka 239
Glossary
View Book
Verse
श्लोकः
Expand all
1
अतःपरं ब्रह्म सदद्वितीयं
2
विशुद्धविज्ञानघनं निरंजनम् ।
3
प्रशान्तमाद्यंतविहीनमक्रियं
4
निरंतरानंद-रसस्वरूपम् ॥२३९॥
Śloka 238
All Ślokas
Śloka 240
Commentary
व्याख्या
Expand all
1
अतः जगतः पृथक्सत्ताशून्यत्वात् आरोपितया नाममात्रत्वात् परं ब्रह्म
2
अबाध्यं विजातीयरहितं
3
निर्विषय-विज्ञानशरीरं
4
अज्ञानास्पृष्टं अपरिणामि
5
जन्मनाशरहितं अमृतं
6
अखण्डानन्दविग्रहं
7
निरस्ताः माया-कृताः सर्वभेदाः यस्मात् यस्मिश्चित वा निर्भेदं सजातीय-स्वगतभेदशून्यं
8
सदद्वितीयं सम्यगित्वाहीनत्वात्निस्त्रैः ध्रुवं कूटस्थं
9
निष्कलं निरवयं अप्रमेयं
10
फलव्याप्तिरहितं अरूपं "अशब्दमस्पर्शमरूपमव्ययम्" इति श्रुतेः न चक्षुषा गृह्यते इत्यादेश्च ।
11
अत एवाव्यक्तं वागोचरतामाह अनाख्यमिति नामशून्यं प्रवृत्तिनिमित्तानां जातिगुणक्रियासंबंधाना-मभावात् ।
12
अव्ययं नव्येति इत्यर्यः अपक्षयरहितं ज्योतिः स्वयं परापेकाय्र्यं किंचिदेदं चकास्ति प्रकाशते ।
13
निश्चलतया तत्र बुद्धेः स्थापनार्थं तत्र तत्र श्रुत्युक्तानि तावन्ति विशेषणानि पुनराह
14
ज्ञातु-ज्ञानज्ञेयशून्यं त्रिपुटीरहितं ।
15
तत्रहेतुः अनंतं परिच्छेदत्रयशून्यमिति ।
16
अत एव निर्विकल्पकं केवलाखण्डचिन्मात्रं
17
सर्वोपाधि-संबंध-विधुरापरिच्छिन्न-ज्ञानाकारूपं परं तत्वं बुधाः विदुः ।
18
स्वात्मत्वेन अहेयमनुपादेयं परापेकाय्र्यं मनोगोचरं "यतो वाचः" इति श्रुतेः अप्रमेयं
19
श्रवणमनन-निदिध्यासन-संस्कृत-मनोवृत्तिव्याप्यं
20
अनाद्यंतं कालदेशपरिच्छेदशून्यं अतः पूर्णं
21
महत् सूर्यादिभासकं महः ज्योतिः ब्रह्म इति तत्पदार्थशोधनम् ॥
Śloka 238
All Ślokas
Śloka 240