विवेकचूडामणि
Śloka 28
Glossary
View Book
Verse
श्लोकः
Expand all
1
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते।
2
तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः॥३०॥
Śloka 27
All Ślokas
Śloka 29
Commentary
व्याख्या
Expand all
1
अर्थवन्तःशमादय इत्यर्थः। तस्मिन्पुरुषे शमादयस्सन्तीति व्यवहारसार्थक इति भावः।
2
अयं शान्तो दान्त इत्यादिशब्दाक्तः तीव्रवैराग्यवान् तीव्रमुमुक्षुतावांश्चेत्यर्थः।
3
तीव्रमुमुक्षुत्वेयेव शमादिफलत्वात्।
4
यदि तीव्रमुमुक्षुत्वं तदा साधनं विना फलालाभात् कार्याकारणमनुमीयत इति शमादिमत्वं तस्य सुवचम्।
5
एवं शमादिसाधनं तीव्रवैराग्यं यदा तस्मिन्जायते, साधने सतिफलावश्यंभावात् शमादिमत्वं तस्मिन्नवर्जनीयम्।
6
इत्यं च शमादिसाधने सति तीव्रवैराग्यशमादिफले च तीव्रमुमुक्षुत्वे स्वसाधन-फलमध्यवर्ति स्वयं निरपदमिति भावः।
7
तीव्रवैराग्ये शमादिशब्दाः अर्थवन्तः, तीव्रमुमुक्षुत्वे शमादयः फलवन्त इति विभागः।
8
शमादीनां इतरान्तःकरण-निष्ठानां दुर्ज्ञानत्वात् कारणकार्याभ्यां परोक्षयोजनीया।
9
यत् एवमपि पुरुषेण शान्त्यादिकं समपादितं कथं ज्ञेयं इत्युक्तौ पुष्कलकारणे तीव्रवैराग्ये विशिष्टफले तीव्रमुमुक्षुत्वे च सित तथेति स्वस्मिन् परिमश्च कारणकार्ये ज्ञापके इति भावः।
10
"काकस्य विष्ठावदसह्वबुद्धि-भोग्येषु सा तीव्रविरक्तिरित्यते। विरक्तितीव्रत्व-निदानमाहुः भोग्येषु दोषेक्षणमेव सन्तः" इति सर्ववेदान्त-सिद्धान्त-सार-संग्रहे।
11
मुमुक्षुत्वे तीव्रत्वं प्रवृढमेव। तत्तु प्रागिभिहितम्॥३०॥
Śloka 27
All Ślokas
Śloka 29