विवेकचूडामणि
Śloka 41
Glossary
View Book
Verse
श्लोकः
Expand all
1
ब्रह्मानन्द-रसानुभूति-कलितैः पूतैः सुशीतैः सितैः
2
युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैः वाक्यामृतैः सेचय ।
3
संतप्तं भवतापदावदहन-ज्वालाभिरेनं प्रभो
4
धन्यास्ते भवदीक्षण-क्षणगतेः पात्रीकृताः स्वीकृताः ॥४१॥
Śloka 40
All Ślokas
Śloka 42
Commentary
व्याख्या
Expand all
1
हे प्रभो सर्वशक्त, भवदीक्षणक्षणगतेः भवतां यदीक्षणं दयाद्र-विलोकनं, तस्य क्षणगतेः क्षणप्राप्तेः, पात्रीकृताः आस्पदीभूताः,
2
यद्वा भवतां यदीक्षणं नयनं तस्य क्षणगतेः क्षणसंयोगस्य पात्रीकृताः आश्रयी-भूताः क्षणमात्रं वा भवदेश्रपातलक्ष्या इति यावत् ।
3
अत एव स्वीकृताः आत्मीयत्वेन कृताः ये पुरुषाः ते धन्याः कृतार्थाः ।
4
तस्मादहमपि भवत्कटाक्षेण पावित्तमाहम् धन्योस्यि अलिक्षिप्रं सांसारिकाग्नि-तापं शिशमियिषुः एवं प्रार्थये इति सूचयति ।
5
"श्रेयसि केन तुष्यते" इति न्यायेन कटाक्षपात्रं मां स्वीकृतं भवतापदावदहन-ज्वालाभिः भवस्य तापः भवतापः संसारशोकः स एव दावदहनः वनानिगः, तज्ज्वालाभिः संतप्तं अत्यन्तदग्धं, एवं पुरोवितितं,
6
मां ब्रह्मानन्द एव रस इत्याश्वद एत इति तदनुभिमिश्रः, अत एव पूतैः सकलकल्मष-हारकत्वेन पवित्रैः "न हि ज्ञानेन सदृशं पवित्रमिह विद्यत" इति स्मृतेः ।
7
तादृशज्ञानवत् वाक्यानां सकल-पापापहारक-ज्ञानोपदेशरूपत्वेन पूतत्वम् ।
8
सुशीतैः आन्तराणां आध्यात्मिक-आधिदैविक-आधिभौतिक तापानां नाशकत्वात् ।
9
सितैः रजस्तमो-मार्गिनिवर्तनद्वारा सत्त्वमार्गेक-प्रापकत्वेन निर्मलैः ।
10
युष्मद्वाक्कलशोज्झितैः युष्मद्वाक् वागिंद्रियं तत्स्थानं मुखं वा स एव कलशः घटः ततो निर्गलिन्त वाक्यामृतानिति, तेन उज्झितैः विसृष्टैः,
11
श्रुतिसुखैः कर्णानन्ददायकैः, वाक्यामृतैः वाक्यानेवामृतानि तैरित्यर्थः । सेचय मां सिंचयेत् । स्वार्थे णिच् ।
12
पूतत्वं सुशीतत्वं सितत्वं कलशोज्झितत्वं वाक्येष्वमृते चाविशिष्ट-रूपितानि । पूतत्वे हेतुः ब्रह्मानन्द-रसानुभूति-कलितेरिति,
13
श्रुतिसुखेरिति श्रवणकालेपि आनन्दकरैरित्येनेन तदर्थमनुसंधाय यदनुभवउत्पद्येत तादात्विक आनंदः किमु वक्तव्य इति भावः ॥४१॥
Śloka 40
All Ślokas
Śloka 42