विवेकचूडामणि
Śloka 43
Glossary
View Book
Verse
श्लोकः
Expand all
1
तथावदन्तं शरणागतं स्वं, संसारदावानल-तापतप्तम् ।
2
निरीक्ष्य कारुण्यरसाद्र-दृष्टचा द्द्यादभीतिं सहसा महात्मा ॥४३॥
Śloka 42
All Ślokas
Śloka 44
Commentary
व्याख्या
Expand all
1
तथावदन्तमित्युक्त्या वाभ्यापारेण तदियाधिकारस्य आन्तरस्य सम्यग्ज्ञातुं शक्यत्वात् अधिकारिणं ज्ञात्वैव अभयदानोपदेशादिकं गुरुभिः कर्तव्यमिल्युक्तं,
2
स्वं स्वात्मानं संसारदावानल-तापतप्तं, स्वं स्वात्मानं शरणागतं रक्षकत्वेन मत्वा प्राप्तं,
3
कारुण्यरसाद्र-दृष्टचा निरीक्ष्य, महात्मा अक्षुद्रबुद्धिः, गुरुः सहसाऽभीत्यनेन भीतात् सहसा भीत्या मोचनीया इति व्यंजितं ।
4
अभयदानेन निवृत्तभीतेरेव पुरुषस्य उपदिष्टार्थग्रहणादौ सामर्थ्यं संभवतीति भावः ।
5
भीतस्य भयं शक्तेन बहुकालं न स्थापनीयं इति च संसेत्युक्तानां प्रथमतः कर्तव्यमिल्युक्वा अधिकारानुसारेण उपदेशः अनन्तरकालिक इति बोधयति विद्वान्-इत्यादिना ।
6
स विद्वान् ब्रह्मवित्तमो देशिकः उपसत्तिमीयुषे विविधसमीपं-गताय मुमुक्षवे मोक्षं कामयमानाय, साधुयथोक्तकारिणे सम्यग्विहितानुष्ठायरे ।
7
एतेन शिष्टत्वमुक्तम् । "नाविरतो दुश्चरितात् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्" इत्युक्तत्वात् ।
8
श्रोत्रियत्वं अवृजिनत्वं मोक्षकामव्यतिरिक्त-काशून्यत्वम् चाशिष्ये अनवेक्षणीयमिति भावः ।
9
प्रशान्तचित्ताय शमान्विताय देहाद्ब्रह्यापर्यन्तभोग्यवस्तुनो विरज्य, स्वलक्ष्ये नियतावस्थितमनस्काय, शमान्विताय शमादष्टकमुक्त अधिकारिविशेषणं ।
10
तस्मै वैरागयादि-गुणगणमण्डिताय, तत्त्वोपदेशं कृपया तदीयदुःखप्राणेच्छया आप्तकामस्य स्फुरतरामावात् कुयिदेवेत्येवकारो भिन्नक्रमः ।
11
अधिकारिणे लब्धे नोदासितव्यं, पात्रे दत्ता ब्रह्मविद्या लोकानुग्रहार्थं प्रतिष्ठताभवतीति भावः ।
12
इत्थं च सर्वार्थ-हेतुभूताविनार्तक-ब्रह्मविद्यापारंपर्या-विच्छेदः स्वशिष्यमोचनं च उपदेशस्य फलं ।
13
तत्र गुरुशिष्यसंवादरूपेण प्रकरण-प्रणयनम् सुलभतया तत्त्वस्य श्रोतृबुद्ध्याढ्याय । अत एव किलाख्या-त्याख्यायिकास्तत्र तत्र श्रुतिरपि ।
14
तेन गुरुलक्षणं शिष्यलक्षणं प्रत्ययांशाः सर्वे अनायासेन अस्माभिः ज्ञातुं शक्यन्ते इति ॥४४॥
Śloka 42
All Ślokas
Śloka 44