विवेकचूडामणि
Śloka 45
44
All
46
Glossary
विवेकचूडामणि
Śloka 45
100%
Commentary — व्याख्या
1
हे विद्वन् भवान् माभैष्ट, भवतो भयं माभूदिति सहसा अभीतिर्दत्ता ।
2
विद्वेति संबोधयन् विवेकादिकं संपाच गुरुकरुणां विना दुःखतरणं नभवतीति मां प्राप्तस्त्वं ज्ञातव्यं जानिष न एव इति सूचयति,
3
तादृशसाधुयथोक्तकारिणः "नहि कल्याणकृत्कश्चित् दुर्गतिं तात गच्छति" इति स्मृतेः ।
4
अतः कथं तरेयम्, काया गतिरिति मैव भैषीरित्यर्थः ।
5
एवं मा भैष्ट तव कल्याणकृतः अपायो नास्तीति तमाश्वास्य कतमोस्त्युपायः इत्यस्य उत्तरमाह संसारसिंधोस्तरणेस्त्युपाय इति ।
6
तत्र संपर्यक्सवास तमुपायं सप्रमाणं कथयति । येनैव मार्गेण अस्य संसारसंधोः पारं अन्तं यतयः प्रयत्नशीलाः संन्यासिनः, याताः तमेव मार्गं तव निदिशामि उपदिशामीत्यर्थः ॥४५॥
44
All
46
En