विवेकचूडामणि
Śloka 54
53
All
55
Glossary
विवेकचूडामणि
Śloka 54
100%
Commentary — व्याख्या
1
मस्तके न्यस्तः भारः यस्य, आदिपदेन शृंखलादि-निगडित-करचरणादिः तस्य दुःखं अन्येनैव नावर्यते भाराधःस्थापनादिना शृंखलादि-मोचनेन वा ।
2
क्षुधादिकृतदुःखं स्वेन विना केनिचदन्येन न निवार्यते इत्यर्थः ।
3
नह्यन्यस्मिन् पुरावौ भुंजाने वारि पिबति वा पितुः क्षुत्पासा-निवृत्ति-दृष्टा ॥५४॥
53
All
55
En