विवेकचूडामणि
Śloka 63
62
All
64
Glossary
विवेकचूडामणि
Śloka 63
100%
Commentary — व्याख्या
1
अज्ञानमेव सर्पः अत्यन्तानर्थकरत्वात्,
2
तेन दष्टस्य आवृतिविक्षेपाभ्यां प्राप्तमोहस्य,
3
ब्रह्मज्ञानमेवौषधं ब्रह्मज्ञानौषधं तेन विना,
4
वेदैः ऋगादि-वेदैः, शास्त्रैः व्याकरणादिशास्त्रैश्च किमु प्रयोजनं,
5
मन्त्रैः सप्तकोटिभिः किमु ।
6
औषधैः संजीवन्यादिमूलिकाभिर्वा किमु फलं तेषां मध्ये केवामिप अज्ञानसर्पदंशन-प्रयोजनमोहनिवर्तकत्वाभावादिति भावः ॥६३॥
7
शब्दमात्रस्य मोक्षाहेतुत्वं दृष्टान्तेनाह । न गच्छतीति ।
62
All
64
En