विवेकचूडामणि
Śloka 65
Glossary
View Book
Verse
श्लोकः
Expand all
1
अकृत्वा दृश्यविलयं अज्ञात्वा तत्त्वमात्मनः ।
2
बाह्यशब्दैः कुतो मुक्तिरुक्तिमात्रफलेनृणाम् ॥६५॥
Śloka 64
All Ślokas
Śloka 66
Commentary
व्याख्या
Expand all
1
दृश्यविलयं दृश्यस्य शब्दाजन्यवृत्तिविषयस्य चिद्विषयस्य वा,
2
तेन शश-श्रृंगादेः ब्रह्मणश्च वारणं अज्ञानात्तस्य जडस्य सर्वस्य ब्रह्मव्यतिरिक्ततस्य,
3
विलयं ब्रह्मणि प्रविलापनं अकृत्वा,
4
आत्मनः तत्त्वमज्ञात्वा सजातीय-विजातीय-स्वगतभेदरहितसर्वाधिष्ठान-सत्य-स्वयंप्रकाशानन्दरूपतामज्ञात्वा
5
उक्तिमात्रफले उच्चार्यमाणे अहन्ब्रह्मास्मीत्यादिशब्दैः नृणां मुक्तिः कुतः, नैव संभव-तीत्यर्थः ।
6
किंशब्दः निषेधार्थकः ॥६५॥
7
एतेन आत्मतत्त्वज्ञाने समस्तदृश्य-प्रविलापनपुरस्सरं ब्रह्ममात्राव-शेषणं परमकारणमित्युक्तं व्यतिरेकमुखेन अकृत्वेति,
8
दृश्यप्रविलापने तत्त्व-ज्ञानं नात्यधेति । एवं तत्त्वज्ञाने मुक्तिः नापरश्येति च, मुक्तिहेतुत्वं ज्ञानस्य व्यतिरेकमुखेन कथितम् ।
9
तत्रानुरूपं दृष्टान्तमाह । तत्रानुरूपं[?] अकृत्वेति ।
Śloka 64
All Ślokas
Śloka 66