विवेकचूडामणि
Śloka 1
Glossary
View Book
Verse
श्लोकः
Expand all
1
सर्व-वेदान्त-सिद्धान्त-गोचरं तमगोचरम् ।
2
गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥१॥
All Ślokas
Śloka 2
Maṅgala Verses
मङ्गलश्लोकाः
Expand all
M1a
संसार-सागरनिमग्न-जनोद्धिधीषुः योवातरच्छिव-नृसिंह-गुरुच्छलेन ।
M1b
जाड्यान्धकार-हरणं करुणासमुद्रं तं दक्षिणास्यमनिशं हृदिभावयामि ॥
M2
ज्ञानस्वरूपे वाग्देवि भगवत्पादपूजिते । चूडामणिं विवेकादिं व्याकुरुष्व मुखान्तम ॥
M3
प्रसन्नानां गभीराणां वचसां देशिकेशितु: । भावस्तव्कृपया चित्ते भासतां मम शारदे ॥
M4
रत्नगर्भे-गणेशान विघ्नघवान्त-विभाकर । निविघ्नं पूरयस्वेमां व्याख्यां कारुण्य-शेवधे ॥
M5
चन्द्रमौलीश्वर विभो ब्रह्मविद्या-समाश्रित । स्वानुभूतिं प्रयच्छासु चिन्मुद्रा-विलसत्कर ॥
Commentary
व्याख्या
Expand all
1
भगवद्गीतासु "अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिता:" इतिश्लोकवत् विवेक-चूडामणि-प्रकरणप्रतिपाद्य-कृत्स्नार्थं-संग्राहकोऽयं श्लोक: जन्तूनामित्यादि: ॥
2
आस्त कस्यैव शास्त्रेऽधिकारात् प्रथमं नरजन्मप्राशस्त्य-कथनमुखेन शरीरव्यतिरिक्ता-त्मास्तित्वं तावदनुयति जन्तूनां नरजन्म दुर्लभमिति ।
3
उक्तं च शारीरकभाष्ये 'शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मन: परलोक-सम्बन्ध-मधिक्रियते' इति ।
4
जन्तूनां जननशीलानां प्राणिनां नरजन्म मानुष्यं दुर्लभमिति तत्र ऐकनैव बहुषु जन्मसु प्राप्तेष्वपि किल नरजन्म दुर्लभमिति वक्तुशक्यं, शरीर-सम्बन्धस्यैव जन्मशब्दार्थत्वात् ।
5
यदा चैकस्य अनेकशरीरयोग: तदा शरीर-व्यतिरिक्तत्वं आत्मन: सूचितमेव ।
6
प्रसिद्धं खल्वनेकै: कुसुमै: युग्यमानं सूत्रं तेभ्योऽतिरिच्यत इति, अनेकानि वासांसि क्रमेण युगपदा परिवृढाच्छरीरं तेभ्यो भिद्यत इति च ।
7
तथाच सुखहेतुशरीरेषु दु:खहेतु-शरीरनिवृत्त्यै च पुण्येप्रवृत्ति:पापानिवृत्तिश्च युज्यत इति, विधिनिषेधात्मक-कर्मशास्त्रे आस्तिकस्यैवाधिकार: ।
8
एवं ज्ञानेन सकल-कर्म-निहर्णार्थं मोक्षशास्त्रेऽपि ।
9
यदि शरीरमेवात्मा स्यात् तस्य प्रत्यक्षसिद्धत्वात् "आत्मा वा अरे द्रष्टव्यश्रोतव्यो मन्तव्यो निदिध्यासितव्य:" इत्यादि-दर्शन-साधन-विधानं कथमुपपद्येत ।
10
"शुभेरापोति देवत्वं निषिद्धैरिकीं तनुम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवश:" इति चैकस्यैव शुभाशुभ-मिश्रकर्मभि: विजातीय-शरीरलभं दर्शयित ।
11
कथमन्यथा लोकप्रसिद्धं सुखदु:खादिवैचित्र्यमुपपद्येत ।
12
यदि कर्मनिरपेक्ष: ईश्वर एव कांश्चित् प्राणिन: सुखिन: कांश्चिदन्यादृशांश्च सृजेत् वैषम्य-नैर्घृण्ये भजेत् ।
13
तथाचेश्वरत्वं हीयेत ।
14
तदुक्त "वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथाहि दर्शयति" "न कर्मविभागादिति चेन्नानादित्वात्" उपद्येते चाप्युपलभ्यते च" इतिसूत्रै: ईश्वरस्य कर्मसापेक्षत्वं संसारस्यानादित्वं च ।
15
धर्मभूत: संसार एव अनादिश्चेत् तदाश्रयस्य संसारिणोऽपि अनादित्वं कर्ममुक्तकाय्यासिद्धम् ।
16
तत् सिद्धात्मन: शरीर-व्यतिरिक्तता-त्मास्तित्वलवाद्यैर्वास्तिक इति ।
17
शास्त्र-व्यवहारिनादन-मास्तिक्यं इति जन्तूनां नरजन्म दुर्लभमित्येनेन सूचितं ।
18
तत: पुंस्त्वं, स्त्रिया वेदेऽधिकाराभावात् ।
19
उपनिषद्-एकसमधि-गम्यात्मा नैव ज्ञातुं शक्यत इत्यभिप्राय: ।
20
तत्रापि त्रैवर्णिकानां वेदाधिकार-सत्वेऽपि क्षित्रियवैश्ययो: राज्यपरिपालन-कृष्याद्यिरूपाणां चित्तविक्षेप-हेतुभूतानां बाह्याभ्यापाराणां सत्वादेतदनुष्ठानेन आत्मविचार: दुर्घट इति
21
"मुखजानामयंधर्म: वैष्णवं लिंगधारणं । बाहुजातो-रु-जातानां नायं धर्मो विधीयते ।" इति स्मृत्यनुसारेण ऐदंपर्येण ब्रह्मविचार-साधन-संन्यासस्य अनवकाशात् एकस्मिन्नेव जन्मनि ब्रह्माधिगम: तयोर्दुर्लभ इति द्योतनार्थं द्विजत्वं तत: इत्युक्त्वा ततो विप्रधर्मयुक्तम् ।
22
"ब्राह्मणस्य तु देहोऽयं नोपभोगाय कल्पते । इह क्लेशाय महते प्रेत्यानन्त सुखाय च"॥ इति वसिष्ठस्मृत्या वेदविहित-प्रवृत्तिनिवृत्त-धर्मानुष्ठानेन एकस्मिन्नेव जन्मनि ब्रह्माधिगन्तुं शक्यं ब्राह्मणेनेति भाव: ।
23
अत एव तस्माद्वैदिकधर्ममार्गेयुक्तम् । न केवलं विप्रतया लब्धया, अपितु तां लब्ध्वा तदुचितधर्मानुष्ठानेनेति भाव: ।
24
"धर्मो विश्वस्य जगत: प्रतिष्ठा" "धर्मेण पापमपनुदति" इति श्रुत्या धर्मस्यैव सुखसाधनत्वं दु:खहेतूपानिवर्तनत्वं, तत्श्रुत्वा दु:खाभावहेतुत्वं चित, सुखं मे भूयात् दु:खं मे माभूत् इति सकलजन-कामनाविषय-मुखदु:खमावरूप-पुरुषार्थं-
25
"चरतीति धर्म: धियतेऽजेनेति वा धर्म:" इति व्युत्पत्याजगत्रिष्ठाहेतुत्वं तस्य श्रुतिबोधितं सूचयितुं वैदिककर्म-मार्गपरतेत्युक्त्वा धर्ममार्गयुक्तं वैदिककर्मण: धर्मत्वेपि कर्मशब्देन विवक्षितार्थलाभात् ।
26
यदि धर्मव्यतिरिक्तं किंचित्सुखसाधनं दु:खनिवृत्तिसाधनं च स्यात् तत्साधनसंपादनेन सर्वो लोक: सर्वदापि सुखी, निवृत्तदु:खश्च स्यादेव ।
27
धर्मस्य तु अतीन्द्रियत्वेन शास्त्रैकसमधिगम्यत्वात् जनानां तज्ज्ञानस्य शास्त्रमन्त्रासंभवात् साधनालाभात् फलालाभ इति प्रतिपादयितुं शक्यते ।
28
तदुक्तं वैदिकेति ।
29
धर्मस्य लक्षणं "चोदना-लक्षणोऽर्थो धर्म:" इति जैमिनमहर्षिभि: सूत्रितं यत् वेदप्रमाणकत्वं तदैदिकेति विशेषणेनावगमितम् ।
30
निहि वेदं विना प्रमाणांतरं धर्मविषये पदमाधातुमीष्टे प्रत्यक्षस्य तत्राप्रसरात् ।
31
अत एव नानुमानं तत्र प्रसरित, प्रत्यक्षमूलकत्वादनुमानप्रवृत्ते: ।
32
अत एव वेद व्यतिरेकशब्दपि न तं बोधयितुं पारयति प्रत्यक्षादिनावबाधितस्यैवार्थस्य लौकिकशब्देन बोधयितुं शक्यत्वात् ।
33
स्मृतीनामपि पौरुषेयत्वेन पुरुषाणां भ्रमप्रमादादिसंभवेन कर्तुंदोषिनवघनाप्रामाण्यशंकाय: अपौरुषेयतया दोषगंधानागंधतश्रुतिमूलकत्वैव प्रामाण्यस्य वक्तव्यतया वेदव्यतिरेकतस्य शब्दस्य धर्मे स्वत:अप्रमाणत्वात् ।
34
किंच स्मृतिकतिरो वा अतीन्द्रियं धर्मं कथं व्यजानन् ? योगजसामर्थ्येनेति चेत् तत्सामर्थ्यं कथं तै: संपादितम् ? धर्मानुष्ठानेनेति चेत्, स धर्म: कथं ज्ञात:?
35
अत एवं "यो ब्राह्मणो विदधाति पूर्वं, यो वै वेदांश्च प्रहिणोति तस्मै" इति प्रथमं सूज्यमानस्य हिरण्यगर्भस्यापि ईश्वरानुगृहीतवेद-मूलकमेव धर्मज्ञानमिति बोधयति श्रुति: ।
36
किं वक्तव्यमितरेषां ! अतएव सुष्टोक्तं वैदिकेति ।
37
"अब्भक्षा वायुभक्षा" इतिवत् वेदैकमेत्वं धर्मस्य बोधयति ।
38
अत्र धर्मशब्देन प्रवृत्तिधर्म: निवृत्तिधर्मश्च कथ्येते ।
39
उक्तं हि गीताभाष्ये "द्विविधो हि वेदोक्तो धर्म: प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च" इति ॥
40
धर्म एव परमं साधनं नित्यसुखाप्नतौ नान्यदपेक्ष्यमस्तीति कर्मनमीमांसका:, तान् कटाक्षयति मार्गेति ।
41
तेन परमपुरुषार्थ-साधनीभूत-ब्रह्मसाक्षात्कार-साधनवेदान्त-विचारहेतुत्वेन संन्यासरूपनिवृत्तिधर्मस्य तत्साधनवैराग्य-हेतुभूत-चित्तशुद्धिहेतुत्वेन निष्कामकर्मानुष्ठान-रूप-प्रवृत्तिधर्मस्य च अपेक्षितत्वं, न तु साक्षाचिरतिनाय-सुखसाधनत्वं तदुभयस्यपि सूचितम् ।
42
तदुभयस्यति भगवता बादरायणेन "द्राविमावथ पथानो यत्र वेदा: प्रतिष्ठिता: प्रवृत्तिलक्षणो धर्म: निवृत्तिश्च प्रकीतित:" इति ।
43
तथाच शांखायेन उपनयनान्तरं "वेदो नित्यमधीयतां तदुक्तं कर्म स्वनुष्ठीयतां, तेनेशस्य विधीयतामपचिति:काम्ये मतिस्त्यज्यतां । पापीघ: परिधूयतां भवसुखे दोषेणुसंधीयतां, आत्मेच्छा व्यवसीयतां निजगुणों विनिर्गम्यतां ॥ सत: सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां, शान्त्यादि: परिचीयतां दृढतरं कर्मासु संत्यज्यताम् ॥"
44
इति सोपानपंचकोपदिष्ट-रीत्या ईश्वरापर्णबुद्धया कर्म कुर्वाणेन चित्तं शोधयित्वा विषयेभ्यो विरज्य कर्मेन्य-संसुपरिमतब्धं इत्येतद्बोधितम् ।
45
तदुक्त मोक्षभेणु "नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च शीलं स्थितिर्दण्डनिधानमार्जवं तत्श्चोपरति: क्रियाभ्य:" इति ॥
46
विद्वत्वमस्मात्परं ।
47
तत्र प्रवृत्तिधर्मविषये एवं योजना: "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इति छान्दोग्यश्रुत्या क्रियामाणं कर्म, तदंगभूत-मन्त्रार्थज्ञानपुरस्सरं क्रियते चेत् भूयसे फलायेति बोधितं भवति ।
48
तदुक्त तत्रैव भाष्ये "दृष्टं हि लोके विणिकद्वयोरयो: पंचरत्नमणिविक्रये विणिजो विज्ञानाधिक्यात्फला-विक्यमृइति" ।
49
निवृत्तिधर्मविषये "संन्यस्य श्रवणं कुर्यात्" इति विधानात् संन्यासोत्तरकालिक-वेदान्तवाक्य-श्रवणजन्य-परोक्षज्ञानत्वं विद्वत्वम् ।
50
अस्मात्रं आत्मानात्मविवेचनम् ॥इदं ग्रन्थ एवोत्तरत्र स्पष्टतिष्यते ।
51
तेन मननं युक्तिभि: श्रुतार्थदृढीकरणार्थं-मनुचिन्तनरूपं संशयभावनानिरासकमुक्तं भवति ।
52
तत: स्वनुभव:, निदिध्यास्यनपूर्वक-ब्रह्मसाक्षात्कार:कथितो भवति ।
53
अत एव स्वनुभव इत्युक्ते, विपरीत-भावना-निवर्तकनिदिध्यासनाभावे श्रवणमनन-भ्यां जायमानानुभव: सौष्ठवं नास्नुत इति ।
54
एतेन शुभेच्छा विचारणा तनुमानसा सत्वापत्तिश्चेति ज्ञानभूमिकाचतुष्टयं कथितमासीत् ।
55
असंसित: पदार्थिभावना तुर्यगाच, "ब्रह्मात्मना संस्थिति: मुक्ति:" इत्यत्र संस्थितिशब्देन वासनाक्षयमनोनाश-सहछृतस्वनुभवबोधकेन तुर्यातीतावस्था व्यंजिता: ।
56
तेन सालोक्य सामीप्य-सारूप्य-सायुज्यानां मुख्यमुक्तिलाभावश्च सूचितो भवति ।
57
सगुणविषयकतया तेषां चतुर्णिमपि मिथ्यात्वात्, परिच्छेदत्रयशून्यत्व-रूपब्रह्मत्वस्य सगुणसंभवात् ।
58
ब्रह्मात्मना संस्थिति: कल्पित-सकल-विधोपाधिसंबंध-विधूर-नित्यशुद्ध-बुद्धमुक्त-प्रत्यगात्मभिन्न-परिपूर्णस्वरूपेणावस्थानं कैवल्यमेव मुक्ति:, शतकोटिजन्मसु कृते: पुण्येविना नो लभ्यते इत्यन्वय:॥
All Ślokas
Śloka 2