Commentary व्याख्या
Expand all The bhāṣya of Śrī Candraśekhara Bhāratī Svāmī treats ślokas 1 and 2 together as a single doctrinal unit. In the commentary (translated in `sloka_001_translation.md`), the key points covered with reference to this verse are: - The ascending hierarchy of rare attainments: human birth → manhood → brāhmaṇahood → Vedic dharma → vidvatva → ātma-anātma-vivecana → svanubhava → abidance as brahman. - The relationship between pravṛtti-dharma (engaged action) and nivṛtti-dharma (renunciation) as complementary means — the former purifying the mind, the latter enabling Vedāntic inquiry through sannyāsa and śravaṇa. - The four stages of knowledge (jñānabhūmikā): aspiration, inquiry, subtlety of mind, attainment of purity; and the state beyond the fourth (turyātīta) corresponding to brahman-ātmanā sansthiti. - The refutation of the Karma-Mīmāṃsaka view that dharma alone, without knowledge, suffices for liberation. - The distinction between secondary liberations (sālokya, sāmīpya, sārūpya, sāyujya) and kaivalya, the highest liberation.
1 भगवद्गीतासु "अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिता:" इतिश्लोकवत् विवेक-चूडामणि-प्रकरणप्रतिपाद्य-कृत्स्नार्थं-संग्राहकोऽयं श्लोक: जन्तूनामित्यादि: ॥ 2 आस्त कस्यैव शास्त्रेऽधिकारात् प्रथमं नरजन्मप्राशस्त्य-कथनमुखेन शरीरव्यतिरिक्ता-त्मास्तित्वं तावदनुयति जन्तूनां नरजन्म दुर्लभमिति । 3 उक्तं च शारीरकभाष्ये 'शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मन: परलोक-सम्बन्ध-मधिक्रियते' इति । 4 जन्तूनां जननशीलानां प्राणिनां नरजन्म मानुष्यं दुर्लभमिति तत्र ऐकनैव बहुषु जन्मसु प्राप्तेष्वपि किल नरजन्म दुर्लभमिति वक्तुशक्यं, शरीर-सम्बन्धस्यैव जन्मशब्दार्थत्वात् । 5 यदा चैकस्य अनेकशरीरयोग: तदा शरीर-व्यतिरिक्तत्वं आत्मन: सूचितमेव । 6 प्रसिद्धं खल्वनेकै: कुसुमै: युग्यमानं सूत्रं तेभ्योऽतिरिच्यत इति, अनेकानि वासांसि क्रमेण युगपदा परिवृढाच्छरीरं तेभ्यो भिद्यत इति च । 7 तथाच सुखहेतुशरीरेषु दु:खहेतु-शरीरनिवृत्त्यै च पुण्येप्रवृत्ति:पापानिवृत्तिश्च युज्यत इति, विधिनिषेधात्मक-कर्मशास्त्रे आस्तिकस्यैवाधिकार: । 8 एवं ज्ञानेन सकल-कर्म-निहर्णार्थं मोक्षशास्त्रेऽपि । 9 यदि शरीरमेवात्मा स्यात् तस्य प्रत्यक्षसिद्धत्वात् "आत्मा वा अरे द्रष्टव्यश्रोतव्यो मन्तव्यो निदिध्यासितव्य:" इत्यादि-दर्शन-साधन-विधानं कथमुपपद्येत । 10 "शुभेरापोति देवत्वं निषिद्धैरिकीं तनुम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवश:" इति चैकस्यैव शुभाशुभ-मिश्रकर्मभि: विजातीय-शरीरलभं दर्शयित । 11 कथमन्यथा लोकप्रसिद्धं सुखदु:खादिवैचित्र्यमुपपद्येत । 12 यदि कर्मनिरपेक्ष: ईश्वर एव कांश्चित् प्राणिन: सुखिन: कांश्चिदन्यादृशांश्च सृजेत् वैषम्य-नैर्घृण्ये भजेत् । 14 तदुक्त "वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथाहि दर्शयति" "न कर्मविभागादिति चेन्नानादित्वात्" उपद्येते चाप्युपलभ्यते च" इतिसूत्रै: ईश्वरस्य कर्मसापेक्षत्वं संसारस्यानादित्वं च । 15 धर्मभूत: संसार एव अनादिश्चेत् तदाश्रयस्य संसारिणोऽपि अनादित्वं कर्ममुक्तकाय्यासिद्धम् । 16 तत् सिद्धात्मन: शरीर-व्यतिरिक्तता-त्मास्तित्वलवाद्यैर्वास्तिक इति । 17 शास्त्र-व्यवहारिनादन-मास्तिक्यं इति जन्तूनां नरजन्म दुर्लभमित्येनेन सूचितं । 18 तत: पुंस्त्वं, स्त्रिया वेदेऽधिकाराभावात् । 19 उपनिषद्-एकसमधि-गम्यात्मा नैव ज्ञातुं शक्यत इत्यभिप्राय: । 20 तत्रापि त्रैवर्णिकानां वेदाधिकार-सत्वेऽपि क्षित्रियवैश्ययो: राज्यपरिपालन-कृष्याद्यिरूपाणां चित्तविक्षेप-हेतुभूतानां बाह्याभ्यापाराणां सत्वादेतदनुष्ठानेन आत्मविचार: दुर्घट इति 21 "मुखजानामयंधर्म: वैष्णवं लिंगधारणं । बाहुजातो-रु-जातानां नायं धर्मो विधीयते ।" इति स्मृत्यनुसारेण ऐदंपर्येण ब्रह्मविचार-साधन-संन्यासस्य अनवकाशात् एकस्मिन्नेव जन्मनि ब्रह्माधिगम: तयोर्दुर्लभ इति द्योतनार्थं द्विजत्वं तत: इत्युक्त्वा ततो विप्रधर्मयुक्तम् । 22 "ब्राह्मणस्य तु देहोऽयं नोपभोगाय कल्पते । इह क्लेशाय महते प्रेत्यानन्त सुखाय च"॥ इति वसिष्ठस्मृत्या वेदविहित-प्रवृत्तिनिवृत्त-धर्मानुष्ठानेन एकस्मिन्नेव जन्मनि ब्रह्माधिगन्तुं शक्यं ब्राह्मणेनेति भाव: । 23 अत एव तस्माद्वैदिकधर्ममार्गेयुक्तम् । न केवलं विप्रतया लब्धया, अपितु तां लब्ध्वा तदुचितधर्मानुष्ठानेनेति भाव: । 24 "धर्मो विश्वस्य जगत: प्रतिष्ठा" "धर्मेण पापमपनुदति" इति श्रुत्या धर्मस्यैव सुखसाधनत्वं दु:खहेतूपानिवर्तनत्वं, तत्श्रुत्वा दु:खाभावहेतुत्वं चित, सुखं मे भूयात् दु:खं मे माभूत् इति सकलजन-कामनाविषय-मुखदु:खमावरूप-पुरुषार्थं- 25 "चरतीति धर्म: धियतेऽजेनेति वा धर्म:" इति व्युत्पत्याजगत्रिष्ठाहेतुत्वं तस्य श्रुतिबोधितं सूचयितुं वैदिककर्म-मार्गपरतेत्युक्त्वा धर्ममार्गयुक्तं वैदिककर्मण: धर्मत्वेपि कर्मशब्देन विवक्षितार्थलाभात् । 26 यदि धर्मव्यतिरिक्तं किंचित्सुखसाधनं दु:खनिवृत्तिसाधनं च स्यात् तत्साधनसंपादनेन सर्वो लोक: सर्वदापि सुखी, निवृत्तदु:खश्च स्यादेव । 27 धर्मस्य तु अतीन्द्रियत्वेन शास्त्रैकसमधिगम्यत्वात् जनानां तज्ज्ञानस्य शास्त्रमन्त्रासंभवात् साधनालाभात् फलालाभ इति प्रतिपादयितुं शक्यते । 29 धर्मस्य लक्षणं "चोदना-लक्षणोऽर्थो धर्म:" इति जैमिनमहर्षिभि: सूत्रितं यत् वेदप्रमाणकत्वं तदैदिकेति विशेषणेनावगमितम् । 30 निहि वेदं विना प्रमाणांतरं धर्मविषये पदमाधातुमीष्टे प्रत्यक्षस्य तत्राप्रसरात् । 31 अत एव नानुमानं तत्र प्रसरित, प्रत्यक्षमूलकत्वादनुमानप्रवृत्ते: । 32 अत एव वेद व्यतिरेकशब्दपि न तं बोधयितुं पारयति प्रत्यक्षादिनावबाधितस्यैवार्थस्य लौकिकशब्देन बोधयितुं शक्यत्वात् । 33 स्मृतीनामपि पौरुषेयत्वेन पुरुषाणां भ्रमप्रमादादिसंभवेन कर्तुंदोषिनवघनाप्रामाण्यशंकाय: अपौरुषेयतया दोषगंधानागंधतश्रुतिमूलकत्वैव प्रामाण्यस्य वक्तव्यतया वेदव्यतिरेकतस्य शब्दस्य धर्मे स्वत:अप्रमाणत्वात् । 34 किंच स्मृतिकतिरो वा अतीन्द्रियं धर्मं कथं व्यजानन् ? योगजसामर्थ्येनेति चेत् तत्सामर्थ्यं कथं तै: संपादितम् ? धर्मानुष्ठानेनेति चेत्, स धर्म: कथं ज्ञात:? 35 अत एवं "यो ब्राह्मणो विदधाति पूर्वं, यो वै वेदांश्च प्रहिणोति तस्मै" इति प्रथमं सूज्यमानस्य हिरण्यगर्भस्यापि ईश्वरानुगृहीतवेद-मूलकमेव धर्मज्ञानमिति बोधयति श्रुति: । 36 किं वक्तव्यमितरेषां ! अतएव सुष्टोक्तं वैदिकेति । 37 "अब्भक्षा वायुभक्षा" इतिवत् वेदैकमेत्वं धर्मस्य बोधयति । 38 अत्र धर्मशब्देन प्रवृत्तिधर्म: निवृत्तिधर्मश्च कथ्येते । 39 उक्तं हि गीताभाष्ये "द्विविधो हि वेदोक्तो धर्म: प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च" इति ॥ 40 धर्म एव परमं साधनं नित्यसुखाप्नतौ नान्यदपेक्ष्यमस्तीति कर्मनमीमांसका:, तान् कटाक्षयति मार्गेति । 41 तेन परमपुरुषार्थ-साधनीभूत-ब्रह्मसाक्षात्कार-साधनवेदान्त-विचारहेतुत्वेन संन्यासरूपनिवृत्तिधर्मस्य तत्साधनवैराग्य-हेतुभूत-चित्तशुद्धिहेतुत्वेन निष्कामकर्मानुष्ठान-रूप-प्रवृत्तिधर्मस्य च अपेक्षितत्वं, न तु साक्षाचिरतिनाय-सुखसाधनत्वं तदुभयस्यपि सूचितम् । 42 तदुभयस्यति भगवता बादरायणेन "द्राविमावथ पथानो यत्र वेदा: प्रतिष्ठिता: प्रवृत्तिलक्षणो धर्म: निवृत्तिश्च प्रकीतित:" इति । 43 तथाच शांखायेन उपनयनान्तरं "वेदो नित्यमधीयतां तदुक्तं कर्म स्वनुष्ठीयतां, तेनेशस्य विधीयतामपचिति:काम्ये मतिस्त्यज्यतां । पापीघ: परिधूयतां भवसुखे दोषेणुसंधीयतां, आत्मेच्छा व्यवसीयतां निजगुणों विनिर्गम्यतां ॥ सत: सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां, शान्त्यादि: परिचीयतां दृढतरं कर्मासु संत्यज्यताम् ॥" 44 इति सोपानपंचकोपदिष्ट-रीत्या ईश्वरापर्णबुद्धया कर्म कुर्वाणेन चित्तं शोधयित्वा विषयेभ्यो विरज्य कर्मेन्य-संसुपरिमतब्धं इत्येतद्बोधितम् । 45 तदुक्त मोक्षभेणु "नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च शीलं स्थितिर्दण्डनिधानमार्जवं तत्श्चोपरति: क्रियाभ्य:" इति ॥ 47 तत्र प्रवृत्तिधर्मविषये एवं योजना: "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इति छान्दोग्यश्रुत्या क्रियामाणं कर्म, तदंगभूत-मन्त्रार्थज्ञानपुरस्सरं क्रियते चेत् भूयसे फलायेति बोधितं भवति । 48 तदुक्त तत्रैव भाष्ये "दृष्टं हि लोके विणिकद्वयोरयो: पंचरत्नमणिविक्रये विणिजो विज्ञानाधिक्यात्फला-विक्यमृइति" । 49 निवृत्तिधर्मविषये "संन्यस्य श्रवणं कुर्यात्" इति विधानात् संन्यासोत्तरकालिक-वेदान्तवाक्य-श्रवणजन्य-परोक्षज्ञानत्वं विद्वत्वम् । 50 अस्मात्रं आत्मानात्मविवेचनम् ॥इदं ग्रन्थ एवोत्तरत्र स्पष्टतिष्यते । 51 तेन मननं युक्तिभि: श्रुतार्थदृढीकरणार्थं-मनुचिन्तनरूपं संशयभावनानिरासकमुक्तं भवति । 52 तत: स्वनुभव:, निदिध्यास्यनपूर्वक-ब्रह्मसाक्षात्कार:कथितो भवति । 53 अत एव स्वनुभव इत्युक्ते, विपरीत-भावना-निवर्तकनिदिध्यासनाभावे श्रवणमनन-भ्यां जायमानानुभव: सौष्ठवं नास्नुत इति । 54 एतेन शुभेच्छा विचारणा तनुमानसा सत्वापत्तिश्चेति ज्ञानभूमिकाचतुष्टयं कथितमासीत् । 55 असंसित: पदार्थिभावना तुर्यगाच, "ब्रह्मात्मना संस्थिति: मुक्ति:" इत्यत्र संस्थितिशब्देन वासनाक्षयमनोनाश-सहछृतस्वनुभवबोधकेन तुर्यातीतावस्था व्यंजिता: । 56 तेन सालोक्य सामीप्य-सारूप्य-सायुज्यानां मुख्यमुक्तिलाभावश्च सूचितो भवति । 57 सगुणविषयकतया तेषां चतुर्णिमपि मिथ्यात्वात्, परिच्छेदत्रयशून्यत्व-रूपब्रह्मत्वस्य सगुणसंभवात् । 58 ब्रह्मात्मना संस्थिति: कल्पित-सकल-विधोपाधिसंबंध-विधूर-नित्यशुद्ध-बुद्धमुक्त-प्रत्यगात्मभिन्न-परिपूर्णस्वरूपेणावस्थानं कैवल्यमेव मुक्ति:, शतकोटिजन्मसु कृते: पुण्येविना नो लभ्यते इत्यन्वय:॥