विवेकचूडामणि
Śloka 10
Glossary
View Book
Verse
श्लोकः
Expand all
1
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।
2
यत्यतां पण्डितैर्धीरैः आत्माभ्यास उपस्थितैः ॥१०॥
Śloka 9
All Ślokas
Śloka 11
Commentary
व्याख्या
Expand all
1
सर्वकर्माणि संन्यस्य कर्मकाण्डोक्तानि स्वरूपतोपि परित्यज्य,
2
भवबन्धविमुक्तये संसारकबन्धनिवृत्तिहेतुभूतसम्यग्दर्शननिष्ठायै,
3
पण्डितैः आत्मविषयकपरोक्षज्ञानविदुभि:,
4
धीरैः वशीकृतबुद्धिभि:
5
"परांचि खानि व्यतृणत् स्वयंभू: तस्मात् पराङ् पश्यति नान्तरात्मन् । किञ्चिद्धीरः प्रत्यगात्ममनेषात् आवृत्तचक्षुरमृतत्वमिच्छन् ॥" इति श्रुते: ॥
6
धियं रातीति धीर: प्रधानभूतां कार्यकरणसंघातमध्ये बुद्धिं वशयतीत्युक्ते इतरेन्द्रियजय: अर्थसिद्ध: ।
7
तत्कालं एतेन शान्त्यादयेत्पत्वं सूचितं भवति ।
8
एव आत्माभ्यासे च ब्रह्माभ्यासे अनन्यव्यापारतया एकत्वबोधने ।
9
"तच्चिन्तनं तदभनं अन्योऽन्येऽच तत्प्रबोधनं । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधा:" इत्यभियुक्तोक्तिरीत्या
10
अनन्यव्यापारतया श्रुतार्थमनन-तत्कथन-परस्पर-प्रबोधनरूपज्ञानकाण्डव्यापारेषु उपस्थितैः वर्तमानैः,
11
विजातीयप्रत्यातिरस्कृत-सजातीय-प्रत्यय-प्रवाहरूप-निदिध्यासनानुष्ठानेन यत्यतामित्यन्वयः ।
12
एतदाशयस्य पुनः सर्वसंकल्पसंन्यासेन परवैराग्यापरपर्यायेण योगारूढत्वं सिद्धमेव मन्तव्यम् ॥१०॥
13
ननु "यावज्जीवमग्निहोत्रं जुहुयात्" "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" "अहरह-संध्यामुपासीत" "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा:" इत्यादिश्रुतिभि: यावज्जीवं कर्मण: कर्तव्येन चोदितत्वात् सर्वकर्मसंन्यासे श्रुत्युल्लंघनं प्रसज्येतेति चेत्,
14
तासां श्रुतीनां शुद्धिचित्तविषयत्वात् ।
15
अत एव "एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे" इतिशावास्यमन्त्रेण नरे नरमात्राभिमानिनि त्वयि इत: कर्मकरणात् अन्यथा अन्यो मार्ग: कर्मलेपाभाव-प्रयोजक: नास्तीत्युक्तम् ।
16
"न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु: । संन्यासयोगादथवश्शुद्धसत्वा:" ॥
17
"प्लवा होते अदृढा यज्ञरूपा अष्टादशोक्तम्भरेषु येषु कर्म । एतच्छ्रेयो येभिन्नद्न्ति मूढा जरामृत्यु ते पुनरेवापि यन्ति"
18
"किमर्थं वयमध्येयामहे किमर्थं वयं यक्ष्यामहे" इत्यादिना कर्मसंन्यासस्यापि विहितत्वात् निन्दितत्वाच्च कर्मण: ॥
19
"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽशाकेन" "योगिन: कर्वन्ति संगत्यक्त्वाऽऽत्मशुद्धये" इत्यादिश्रुतिस्मृत्यर्थपर्यालोचनया
20
विविधसाधनत्वं चित्तशुद्धिद्वारा तेषामेव सारासीयते, न तु सार्विदिकत्वं ।
21
तथासति "यदहरेव विरजेत् तदहरेव प्रव्रजेत्" इत्यादि-संन्यासविधायक-वाक्यव्याकोपात्तेः, कर्मनिन्दानुपत्तेश्च ।
22
"अत एवाग्निनैधनापेक्षा" "सविपेक्षा च यज्ञादिश्रुते-रद्ववत्" इति च सूत्राभ्यां अयमेवार्थों भम्यते ।
23
परमपुरुषार्थ-भूतमोक्षार्थत्वं नास्ति कर्मणां, चित्तशुद्धिद्वारा ज्ञानविहरंगलविमित, तदिदमाहु: चित्तयेति ।
Śloka 9
All Ślokas
Śloka 11