विवेकचूडामणि
Śloka 9
Glossary
View Book
Verse
श्लोकः
Expand all
1
उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ ।
2
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥९॥
Śloka 8
All Ślokas
Śloka 10
Commentary
व्याख्या
Expand all
1
संग्रहेणोक्तमष्टाभि: श्लोकैरिति वृणोति ।
2
तत्र मुक्त्यर्थं क्रियमाणप्रयत्नस्य सम्यग्दर्शननिष्ठात्त्वात् मोक्षसाक्षात्सादनं सम्यग्दर्शननिष्ठां तत्र मुख्यहेतुत्वं परवैराग्यापरपर्यायं योगारूढत्वं चाह अनेन श्लोकेन ॥
3
"यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥" इति भगवद्वचनात् परवैराग्यपुरस्सर-सम्यग्दर्शन-निष्ठैव संसाराभिपतिताताम्मोदहरणे हेतुरिति भाव: ।
4
"क्लेशादिपंचकतरंगयुतं भ्रमाद्यैर्दारातमजा-पतघन-वन्धुक्षपाभियुक्तम् । औविनलाभ-निजरोष-मनंगजालं, संसारसागरमतीत्य हरिं व्रजामि ॥"
5
संसारसागर-विशाल-कराळकाळ-नक्षग्रहप्रसन-निग्रहविग्रहस्य व्यग्रस्य रागनिचयोमिनि-पीडितस्य लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ इत्यादिरीत्या
6
अविद्याद्विलासरूपस्य संसारस्य सम्यग्ज्ञानं विना दुस्तरत्वात् वारिधिलेन रूपणम् ।
7
नह्यात्मानं देहात्मत्वेन मन्वानस्य तस्मिन् जायमाने श्रियमाणे वा तद्गतधर्म: स्वस्मिन्शास्तीति विज्ञातुं शक्यं, क्षुतिपासायुते वा प्राणे, सुखिनि दु:खिनि वान्तःकरणे ।
8
एवमविद्यासितारागद्वेषाभिनिवेशानां संततत्वात् क्लेशादिपंचकस्य तरंगतया रूपणं, भ्रम एव भ्रम: अतस्मिस्तद्बुद्धिरेव आवर्त: इत्यादि स्पष्टम् ।
9
अनाद्यविद्यावशात् "अज्ञ: कति मनुष्योहम्" इत्यादिरीत्या स्थूलसूक्ष्मकारण-शरीरेषु अनात्मसु आत्मिति स्वरूपाप्राप्य स्थितिरिरेव संसारवारिधिमगनत्मम् असंगसच्चिदानन्दरूपस्यात्मन: ।
10
तत्रापि सुषुप्ति-संसारानुभवात् अविवेकमनोरूपोपाधिमूलकत्वमेव वक्तव्यं संसारस्य ।
11
श्रूयते हि "मन एव मनुष्याणां कारणं बंधमोक्षयो: । बंधाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥" इति
12
अत: विवेचनशून्यस्य मनस: शरीरादि-संस्कतलत्वे सति संसारवारिधिमगनत्वम् ।
13
अत: श्रवणमनानिधास्त्रीय-संस्कार-संस्कृतं मनो यदा भवति तदा भ्रमशून्यं आत्मयाथात्म्य-ज्ञानावाप्या भवतीति
14
अविवेकि मन: शास्त्रजन्यविवेकवता मनसा उद्धरेत् अनात्मयोऽन्वयेत् ।
15
तथाच तस्मिन् पराङ्मुखत्वस्वाभाव्यात् वाह्येषु शरीरादिषु सक्ते वस्तुतोऽसंगस्यापि लोहितस्फटिकवत् संसक्तस्येव भासमानस्य आत्मन: उपाघेरनात्मसंसर्वाभावे प्रत्यङ्मुखतयाऽऽत्ममात्रसंस्थत्वे च आत्मा उद्धृत इव भवतीति भाव: ।
16
संसारवारिधौ मग्नात्मानं योगारूढत्वमासाद्य सम्यग्दर्शनिनिष्ठया आत्मना उद्धरेदित्यन्वय: ।
17
योगारूढत्वं विशदयन्नेव श्रवणमननिदिध्यासनानि संन्यासोत्तरकालिकानि सम्यग्दर्शननिष्ठावाप्तिसाधनानि तावदाह संन्यस्येत्यादिना ।
Śloka 8
All Ślokas
Śloka 10