विवेकचूडामणि
Śloka 12
Glossary
View Book
Verse
श्लोकः
Expand all
1
सम्यग्विचारतः सिद्धा रज्जुतत्वावधारणा ।
2
भ्रान्त्योदित-महासर्प-भवदुःखविनाशिनी ॥१२॥
Śloka 11
All Ślokas
Śloka 13
Commentary
व्याख्या
Expand all
1
विचारस्य वस्तुपलब्धिहेतुत्वं दृष्टान्तेन विशदयति सम्यगिति ।
2
मन्दांधकारे पतितां रज्जुं सर्पं मन्वानः पुरुषः बिभेति दीपानयनेन सम्यग्विचार्य वस्तुतत्त्वं बुद्ध्वा भयकम्पादि-दुःखं जहातीति प्रसिद्धम् ।
3
तत्र रज्वां भ्रान्त्या उदितः यो महासर्पः, तद्भवं तत्प्रत्ययजन्यं यद्दुःखं, तद्विनाशिनी सम्यग्विचाररज्ज्वा रज्जुतत्वावधृतिः ब्रह्मसाक्षात्कारः इति सविचे प्रकृतोपयोग्यं दृष्टान्तः ॥१२॥
Śloka 11
All Ślokas
Śloka 13