विवेकचूडामणि
Śloka 13
Glossary
View Book
Verse
श्लोकः
Expand all
1
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
2
न स्नानेन न दानेन प्राणायामशतेन वा ॥१३॥
Śloka 12
All Ślokas
Śloka 14
Commentary
व्याख्या
Expand all
1
आप्तोक्त्यनुसारेण क्रियमाणविचारस्यैव अर्थनिश्चयहेतुत्वम् नान्यस्य कर्मण इत्याह । अर्थस्येति ।
2
अज्ञानदोषवशात् स्वयंभ्रान्तस्य पुरुषस्य आप्तोक्तिरूपावलम्बनाभावे भयकम्पादिनर्थमनुभवतः स्वतो विचारे प्रवृत्तेर्दुर्लभत्वात् विचारे हितोक्ति-हेतुकता ।
3
हितत्वं च यथार्थवक्तृत्वं, यदि भ्रान्तः पुरुषः हितोक्त्यनुसारेण विचारमविधाय स्नानं वा दानं वा प्राणायामशतं वा कर्म कुर्यात् भ्रमनिवर्तकापरोक्षप्रमाया अभावे, अनर्थप्रयोजक-भ्रमानिवृत्तेः कथं निवृत्ता-नर्थं भवेदिति भावः ।
4
विचारश्च अर्थयाथात्म्य-निश्चयानुकूलो मानसो व्यापारः ।
5
तथा च हितोक्तिसहकृत-विचारस्यैव अर्थप्रमाहेतुत्वं भ्रमस्थले प्रत्यक्षसिद्धम् ।
6
तथासति प्रकृतेपि श्रुत्याचार्योपदेशानुसारेण आत्मविचारं कृत्वा तदायथात्म्य-मपरोक्षीकृत्य अनात्माध्यासरूप-संसारादात्मानं मोचये-दित्युपदेशः ॥१३॥
Śloka 12
All Ślokas
Śloka 14