विवेकचूडामणि
Śloka 132
Glossary
View Book
Śloka 131
All Ślokas
Śloka 133
Commentary
व्याख्या
Expand all
1
दृश्यस्य द्रष्टृधर्मत्वाभावात् अहंकारादि-देहान्ताः पञ्चकोशाः ।
2
विषयाः शब्दादयः, सुखादयः तत्प्रयोज्याश्च ।
3
नित्यबोधस्वरूपिणा स्वत-स्सिद्ध-ज्ञानस्वरूपेण येन घटवत् घट इव वेद्यन्ते ज्ञायन्ते ।
4
स आत्मेत्यन्वयः ।
5
तेन सुखादीनां दृश्यत्वात् द्रष्टृधर्मत्वं नास्तीत्यसंगत्वमुक्तमात्मनः ।
6
अहंकारादि-देहान्तानां पञ्चानां कोशानां वेद्यत्वकथनेन सूत्रस्थानीय-प्रथम-श्लोकोक्तं पञ्चकोशविलक्षणत्वं संग्रहेण कथितम् ।
7
इदमुत्तरत्र स्पष्टीयिष्यते "देहोऽयमञ्चभवन्" इत्यादिना ॥
8
"सर्वाणि रूपाणि विचित्य धीरः, नामानि कृत्वाभिवदन् यदास्ते" इत्यादिश्रुत्यनुसारेण
9
"अवस्थितेरिति काशकृत्स्नः" इति सूत्रानुसारेण च परमात्मन एव जीवभावेनावतिष्ठमात्रत्वात् शोधितत्वंपदार्थत्वेन आत्मानमभिधाय
10
तत्पदार्थेन "अनश्नन्नयो अभिचाकशीति" इत्यादि-श्रुत्यभिप्रेतमर्थमाह । अत्रैवेत्यादिना ।
Śloka 131
All Ślokas
Śloka 133