विवेकचूडामणि
Śloka 131
Glossary
View Book
Verse
श्लोकः
Expand all
1
एषोऽन्तरात्मा पुरुषः पुराणो निरन्तराखण्ड-सुखानुभूतिः ।
2
सदैकरूपः प्रतिबोधमात्रो येनैषिता वागसवश्चरन्ति ॥१३१॥
Śloka 130
All Ślokas
Śloka 132
Commentary
व्याख्या
Expand all
1
येन इषिता: सन्निधिमात्रेण प्रेरिता: वाक्चासवश्च वागसव: ।
2
इदं सर्वस्य कार्यकरणसंघातस्योपलक्षणं ।
3
वाक् असव इति भिन्नं वा पदं ।
4
वागिन्द्रियं प्राणाश्चरन्ति शब्दोच्चारणोच्छ्वास-निःश्वासादीनि कर्माणि स्वकीयानि कुर्वन्ति ।
5
एषः अन्तरात्मा लोकसिद्धानां श्रुत्यापि ब्रह्म-प्रतिपत्तिहेतुत्वेन अन्नमयादान्दमयान्तानां कोशानां कल्पितानां वाह्यानां कल्पनाधिष्ठानत्वेन सर्वानुगततया
6
भुच्छिद्र-सर्प-दण्ड-जलधारादिव्यिव रज्जुभिसमानः अन्तरात्मा ।
7
पुरुष: पूर्णः पुरि शरीरे शेते इति पुरुष: ।
8
पुराण: पुरापि नव एव सनातन: ।
9
निरन्तराखण्डसुखानुभूति: निरन्तरं निरवधिकं अत एव अखण्डं अपरिच्छिन्नं यत्सुखं आनन्दः या च निरन्तरा अखण्डा च अनुभूतिः
10
"यत्साक्षादपरोक्षाद्ब्रह्म" इति श्रुतेः तत्स्वरूप: ।
11
सदैकरूप: विकार एकत्वं विबोधे बोधे प्रतिबोधं मीयात इति मात्र: सकलबुद्धि-वृत्तिषु अनुगततया काष्ठादिष्वाग्नि: ज्ञात इत्यर्थ: ।
12
"प्रतिबोधविदितं मतं" इति श्रुते: ।
13
ज्ञानस्वरूपत्वं निरन्तराखण्ड-सुखानुभूतिरित्यनेनोक्तम् ।
14
गुरूपदेशजन्यबोधो वा प्रतिबोध: तत्र विषय इत्यर्थ: गुरुणाप्रतिबोधित इति प्रसिद्धे: ।
15
सुप्त-प्रतिबुद्ध इति प्रसिद्धे: अविद्यास्ताप-नाशक: महावाक्यजन्याखण्डाकार-वृत्तिरूपबोध: प्रतिबोध: तत्र विषय इति वार्थः ॥१३१॥
Śloka 130
All Ślokas
Śloka 132