विवेकचूडामणि
Śloka 134
Glossary
View Book
Verse
श्लोकः
Expand all
1
अत्रैव सत्वात्मनि धीगुहायां अव्याकृताकाश उरुप्रकाशः ।
2
आकाश उच्चैः-रविवत्प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् ॥१३४॥
Śloka 133
All Ślokas
Śloka 135
Commentary
व्याख्या
Expand all
1
अत्रैव साधकशरीर एव सत्त्वं आत्मा यस्याः धीगुहायां सा सत्वात्मा सत्वप्रधाना या धीः सैव गुहा ।
2
गुहु संवरणे इति धातुना, विज्ञानमय-कोशत्वेन आत्मानं संवृणोतीति तस्यां धीगुहायाम् ।
3
उपादानत्वेन अनुस्यूत: यः अव्याकृताकाशः माया तस्मिन् अव्याकृताकाशे ।
4
उरुप्रकाश: उरु: इत्यर्थः ज्ञानरूप: सर्वाभिभासकत्वात् "तद्वेव ज्योतिषां ज्योति:" इतिश्रुतेः ।
5
आकाश: परमात्मा स्वतेजसा सूर्यादि-सकल-ज्योति-रवभासक-ज्ञानरूप-प्रकाशेन "येन सूर्यस्तपति तेजसेह:" इतिश्रुतेः ।
6
इदं विश्वं दृश्यं सर्वं प्रकाशयन् स्फोरयन् रविवत् सूर्यवत् ।
7
उच्चैः प्रकाशते सर्वोत्कर्षेण भासते ।
8
उच्चैः-रविवदिति वान्वयः आकाशमध्यवर्ति-सूर्य-इव इत्यर्थः: ।
9
एतेन पूर्वश्लोके "एषोऽन्तरात्मा पुरुष" इति कथित: पुरि शरीरे शेत इत्यर्थः अत्रैति स्थूलशरीरे धीगुहायामिति सूक्ष्मशरीरे अव्याकृताकाश इति कारणशरीरे प्रकाशत इति कथनात् विवृत: ।
10
सकलदिगवस्थित-वस्तुभासकत्वं गगनतलमध्यवर्ति-रवेः प्रसिद्धं ।
11
तद्वत् सर्वान्तर आत्मा सकलवस्त्वभासक इति भावः ॥१३४॥
Śloka 133
All Ślokas
Śloka 135