विवेकचूडामणि
Śloka 135
Glossary
View Book
Verse
श्लोकः
Expand all
1
ज्ञाता मनोहंकृति-विक्रियाणां देहेन्द्रिय-प्राणकृत-क्रियाणाम् ।
2
अयोनिनिवत्तानु वर्तमानो नचेष्टते नो विकरोति किंचन ॥१३५॥
Śloka 134
All Ślokas
Śloka 136
Commentary
व्याख्या
Expand all
1
मनोहंकृतिविक्रियाणां मनश्च अहंकृतिश्च मनोहंकृती तयोर्विक्रियाः तासां ज्ञाता
2
कामसंकल्पादीनां मनोविक्रियाणां सर्वैर्दपादीनां अहंकार-विकाराणां आन्तराणां ज्ञाता ।
3
तथा बाह्यानां देहेन्द्रियप्राणकृतक्रियाणां देहश्च इन्द्रियाणि च प्राणश्च देहेन्द्रियप्राणाः तैः कृताः क्रियाः ।
4
देहशब्देन कर्मेन्द्रियाणां विवक्षितत्वात् वचनादीनां चक्षुरादिज्ञानेन्द्रियव्यापाराणां दर्शनश्रवणादीनां प्राणव्यापारस्य उच्छ्वास-निःश्वासादेश्च ज्ञाता इत्यर्थः ।
5
सकलान्तर्बाह्य-विकारसाक्षिणस्तस्यनिर्विकारत्वमाह अयोनिनिवदित्यादिना ।
6
अनिनिर्विनिमनत् यथाग्निः दीर्घं वा वर्तुलं वा अयः अनुवर्तमान: अनुभव्यते न वस्तुतः दीर्घवर्तुलतादिभाक्
7
एवं तान् मनोहंकृति-देहेन्द्रियप्राणान् अनुवर्तमानः व्यापित्वेन स्वच्छत्वेन च सर्वत्र प्रतिबिम्बानोपि तत्तद्व्यापारत्वेन व्यवहियमाणोपि
8
वस्तुतः न चेष्टते । स्वयं न विक्रियते ।
9
नो विकरोति किंचन कुत्रापि विक्रियां नोत्पादयति च ।
10
सूर्यस्येव सानिध्यमात्रात् जडप्रवृत्तिहेतुत्वात्मनः न तु किंचिद्व्यापारवत इति भावः ॥१३५॥
Śloka 134
All Ślokas
Śloka 136