विवेकचूडामणि
Śloka 137
136
All
138
Glossary
विवेकचूडामणि
Śloka 137
100%
Commentary — व्याख्या
1
प्रकृतिर्विद्या, विकृतयः आकाशादयः तद्भिन्नः कार्यकारणव्यतिरिक्त इत्यर्थः ।
2
शुद्धबोधस्वभावः शुद्धः निर्विषयः यः बोधः ज्ञानं तदेव स्वभावः स्वरूपं यस्य सः केवलद्रुग् इत्यर्थः ।
3
इदं प्रत्यक्षादिप्रमेयं सत् तेजआदि मूर्तं असत् अमूर्तं आकाशवाष्वादिकं अशेषं समस्तं भासयन् प्रकाशयन् निर्विशेषः निर्धर्मकः ।
4
परमात्मा जाग्रदादिषु जाग्रत्स्वप्न-सुषुप्त्यादिषु अवस्थासु बुद्धेः साक्षिरूपेण सुषुप्तावपि बीजात्मना बुद्धेः सत्वात् ।
5
अहमहिमति साक्षात् प्रत्यक्षया विलसति प्रकाशते ॥१३७॥
6
अभेदेन परमात्मविज्ञाने मनो-नियमनं तद्वारा बुद्धिप्रसादं च हेतुकुर्वन् "ब्रह्मसंस्थोऽमृतत्वमेति" इति श्रुत्यर्थं शिष्यं प्रत्युपदिशति । नियमितेति ।
136
All
138
En