विवेकचूडामणि
Śloka 136
Glossary
View Book
Verse
श्लोकः
Expand all
1
न जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः ।
2
विलीयमानेपि वपुष्यमुष्मिन् न लीयते कुंभ इवाम्बरं स्वयम् ॥१३६॥
Śloka 135
All Ślokas
Śloka 137
Commentary
व्याख्या
Expand all
1
तमेवार्थं सहेतुकं विशदयति । न जायत इति ।
2
जायतेस्ति विपरिणमते वर्धते अपक्षीयते नश्यतीति जनन-स्थिति-विपरिणाम-वृद्धि-अपक्षय-विनाशाः शरीरादेः दृष्टाः षड्विकाराः ।
3
अयं परमात्मा नित्यः उत्पत्तिनाशादिशून्यः अतः न जायते नोत्पद्यते, नो म्रियते न मिथ्यते अतः आद्यन्तशून्यत्वात् न बध्यते
4
न च वृद्धिरूपविकारवान्भवति, एवं न क्षीयते अपक्षयरूप-विक्रियावान्न भवति ।
5
उत्पत्तेरभावात् तदनन्तरकालिक-स्थितिरपि नैवास्ति ।
6
नित्यत्वेन निरवयवत्वात् विपरिणामो नास्तीति भावः ।
7
स्वयं विक्रियावत एव अन्यत्र विकारहेतुत्वात् सर्वविध-विकारशून्यः नो विकरोतीति पूर्वश्लोकार्थः सहेतुकतया उक्तः
8
अन्यत्र विक्रियां नोत्पादयतीत्यर्थः ।
9
अमुष्मिन् पुषि शरीरे विलीयमानेपि नश्यत्यपि कुंभे नश्यत्यम्बरमिव आकाशमिव स्वयं न लीयते स्वतः परतो वा विकारो नास्तीति भावः ॥१३६॥
10
सम्यग्ज्ञानार्थं विज्ञानात्म-परमात्मनोः स्वरूपमेकीकृत्याह । कृतीति ।
Śloka 135
All Ślokas
Śloka 137