विवेकचूडामणि
Śloka 139
Glossary
View Book
Verse
श्लोकः
Expand all
1
अत्रानात्मन्यहमिति मति-बंध एषोऽस्य पुंसः प्राप्तोऽज्ञानाज्जनन-मरण-क्लेशसंपातहेतुः ।
2
येनैवायं वपुरिद-मसत्यमित्यात्म-बुध्या पुष्यत्यु-शत्यवित विषयैस्तंतुभिः कोशकृद्वत् ॥१३९॥
Śloka 138
All Ślokas
Śloka 140
Commentary
व्याख्या
Expand all
1
अत्र पूर्वोक्तरीत्या वस्तुतः परमात्मन एव स्वस्वरूपत्वेऽपि, अज्ञानात् अनादिसिद्धाविद्यावशात् प्राप्तः अस्य पुंसः अनात्मनि देहादौ अहमिति मतिः एषः बन्धः इत्यन्वयः ।
2
अहं मनुष्यः अहं कुलुपासादिमान् इच्छामि करोमि भुंजे इत्यादि या मतिः एषः बन्धः इत्यन्वयः ।
3
तत्र हेतुः अज्ञानात्प्राप्त इति ।
4
भ्रमसामान्यस्य दोषजन्यत्वात् शरीरादौ आत्मभ्रमे स्वरूपाज्ञानमेव दोषत्वेनापि कारणमिति भावः ।
5
अत्र प्रत्यर्थे देहादावनात्मनि इत्यपार्थः ।
6
सांख्यादिमते मूलाज्ञाननांगीकारेण बन्धमोक्षव्यवस्थैवानुपपत्तेः ज्ञेयम् ।
7
आज्ञानिकले बन्धस्य अज्ञानस्य ज्ञानाभिवृत्ती तन्मूलकस्य बन्धस्यापि निवृत्तेः,
8
अन्यथा बन्धस्य सत्यत्वात् ज्ञानमात्रनिवर्त्यत्वस्य दुर्वचत्वात् दोषाभावे भ्रमस्य उत्पत्तुमशक्यत्वाच्च ।
9
बन्धस्य कार्यमाह जनन-मरण-क्लेश-संपातहेतुरिति ।
10
जननं च मरणं च मरणे ताभ्यां क्लेशः दुःखं तत्र संपातः संमनत्वं, तस्य हेतुः ।
11
जनन-मरणेत्युपलक्षणं दुःखहेतूनां क्षुत्पिपासादीनां सर्वेषां,
12
यद्वा जननं च मरणं च क्लेशादच जनन-मरण-क्लेशाः तेषां संपातः स्वधर्मत्वेन ज्ञानं तत्र हेतुरित्यर्थः ।
13
अधुना क्लेशपदेन अस्मितारागद्वेषाभिनिवेशानां परिग्रहः ।
14
पंचक्लेशमध्ये आदिमक्लेशस्यैव "अनात्मन्यहमिति-बन्धः" इत्युक्तत्वात् ।
15
"अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या" इति योगसूत्रात् ।
16
तत्र देहे स्थूलेभिमानात् जनन-मरणसंपातः आनन्दमयादाविभिमानात् रागद्वेषाभिनिवेशानां संपातः इति सकलविषदुःखहेतुत्वं आदिमक्लेशस्य
17
येनैव अनात्मन्यात्मतिरूप-बन्धेनैव अयं पुरुषः इदमसद्धुः आत्मबुध्या सत्यमिति अहमित्यभिमानेन विषयैः बंधकैरूपनुलैरिव प्रतीयमानैः राशः पुष्यति उक्तिः सिंचति अवित रक्षति ।
18
तत्रानुरूपः दृष्टान्तः तंतुभिः कोशकृद्दिति ।
19
यथा कोशकारः क्रिमिः स्वदेहगत-लालाव्ययेन तंतून् कृत्वा तैः रक्षितो भवामिति भ्रान्त्या तन्मध्यलयनः अन्यत्र गंतुमशक्तः बुधा म्रियते
20
एवं जीवोऽपि शरीरात्मत्वेन मत्वा विषयैः पोषयन् तद्वश जन्म-मरणादिसकलविषधुःखमनुभवतीति भावः ।
21
उक्तं हि "कोशकिमस्तंतुभिरात्मदेहे आवेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् । स्वयं विनिर्गंतुमशक्त एव सन् ततस्तदंतर्म्रियते च लग्नः" इति ॥
22
तत्र अवनं रक्षणं स्थितस्य परिपालनं पोषणं तु तदुपायकत्वं इति भेदः ॥१३९॥
Śloka 138
All Ślokas
Śloka 140