विवेकचूडामणि
Śloka 140
139
All
141
Glossary
विवेकचूडामणि
Śloka 140
100%
Commentary — व्याख्या
1
अधिष्टानारोप्ययोः भेदग्रहे अध्यासासंभवात् अज्ञानस्य मूलकारणस्य अविवेकद्वारा बन्धहेतुत्वं सदृष्टान्तं विषदयन् अध्यासं बन्धशब्दार्थमाह । अतिस्मिन्निति ।
2
तमसा अज्ञानेन विमूढस्य विवेकरहितचित्तस्य पुरुषस्य अतिस्मिन्नात्मनि देहादौ तद्बुद्धिः आत्मबुद्धिः प्रभवति जायते ।
3
तद्यथा विवेकाभावात् स्फुरित भासमाने भुजगे सर्पे नेयं रज्जुरिति भेदज्ञानाभावात्, वै एव, रज्जुधिषणा रज्जुरिति बुद्धिः जायते ।
4
ततः रज्जुबुध्यनन्तरं उपादेयत्वधिया समादातुः भुजंगं स्वीकर्तुः अधिकः अनर्थव्रातः मरणपर्यन्त बहुविधदुःख-समुदायः निपतति प्राप्तो भवति ।
5
ततः तस्मात्कारणात् योसद्ग्राहः अन्यथावर्तमानस्य अन्यथाग्रहणं सः बन्धः भवति हि निश्चयः ।
6
सखे शृणु स्पष्टम् ॥
7
तत्र रज्वां भुजगधिषणामदृष्टान्तत्वित्वा भुजगे रज्जुधिषणा अनात्मन्यध्यासे दृष्टान्तीकृता अत्यन्तानर्थकरत्व-द्योतनाय ॥१४०॥
139
All
141
En