विवेकचूडामणि
Śloka 145
Glossary
View Book
Verse
श्लोकः
Expand all
1
कविलतदिनन्नाथे दुदिने सान्द्रमेघैः व्यथयति हिमझंझावायुर्यो यथैतान् ।
2
अविरतमसात्मन्यावृते मूढबुद्धिं क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥ १४५॥
Śloka 144
All Ślokas
Śloka 146
Commentary
व्याख्या
Expand all
1
सान्द्रमेघैः सान्द राः निबिडाः ते च ते मेघाश्च सान्द्रमेघाः तैः निरंतरमेघैः ।
2
कविलतदिनन्नाथे कविलतः ग्रस्तः दिनन्नाथः सूर्यः यस्मिन् तत् कविलतदिनन्नाथं तस्मिन् ।
3
दुदिने "मेघच्छन्नेऽहि दुदिनं" इति कोशात् ।
4
सूर्याभानेन अप्रकाशमये दिवसे उग्रः भयंकरः । हिमझंझावायुः "झंझावातः सवृष्टकः" इति कोशात् सहितः संवृष्टकवायुः
5
यथा एतान् पथिकान् जनान् व्यथयति दुःखाकरोति ।
6
सूर्यातपो नास्ति मध्यमार्गे स्थिति हिमवर्षसहितः महान् वायुश्चेति तदाऽवगानां पीडा दुर्वचा ।
7
एवं अविरततमसा सान्द्रमेघवत् गाढेन तमसा सूर्यस्थानीये आत्मनि आवृते कविलते स्फुटतया अप्रतीयमाने नष्टप्राये
8
तीव्रविक्षेपशक्तिः राजसी कामक्रोधादिरूपेण परिणममाना प्रबलविक्षेपशक्तिः ।
9
मूढबुद्धिं तामस्या आवरणशक्त्या मूढां प्राप्तज्ञायमानताक-ज्ञानसमर्थां बुद्धिः यस्य स मूढबुद्धिः तं पुमांसम्
10
बहुदुःखैः बहूनि च तानि दुःखानि च बहुदुःखानि तैः जन्ममृत्युजरारोगादिजन्यैः क्षपयति नाशयतीत्यर्थः ।
11
संततदुःखपरंपरा-मग्नस्य क्वानन्दरूप-स्वात्मज्ञानं तदभावे स्वात्मदर्शनात् नष्ट इव भवत्यात्मेति भावः ॥ १४५॥
Śloka 144
All Ślokas
Śloka 146