विवेकचूडामणि
Śloka 144
Glossary
View Book
Verse
श्लोकः
Expand all
1
भानुप्रभा-संजिनिताऽभ्र-पंक्तिः भानुं तिरोधाय यथा विजृंभते ।
2
आत्मोदिताहंकृति-रात्मतत्त्वं तथा तिरोधाय विजृंभते स्वयम् ॥१४४॥
Śloka 143
All Ślokas
Śloka 145
Commentary
व्याख्या
Expand all
1
भानोः सूर्यस्य प्रभया किरणैः संजिनिता समुत्पादिता अभ्रपंक्तिः आपः विभ्रतीति अभ्राणि मेघाः तेषां पंक्तिः माला,
2
ग्रीष्मे सूर्यकिरणैः आकृष्टा आप एव मेघात्मना भवन्तीति प्रसिद्धः ।
3
सा मेघमाला स्वोत्पादकं भानुं सूर्यतिरोधाय आवृत्य यथा विजृंभते स्वयं पुरोभवति ।
4
तत्किरणेरेव जातत्वेन तत्तिरोधाय स्वयमेव भासमानत्वम् इति सवशिषे दृष्टान्तः ।
5
तथा आत्मनः सकाशादुदिता उत्पन्ना याहंकृतिः देहादावहं-प्रत्ययः आत्माधीन-सत्तास्फूर्तिमानपि
6
आत्मतत्त्वं आत्मयाथात्म्यं नित्य-शुद्ध-बुद्ध-मुक्तस्वभावत्वं तिरोधाय तदीयस्फुटभानं प्रतिबध्य स्वयं विजृंभते पुरस्स्फूर्तिको भवतीत्यर्थः ।
7
अहंकृतिः बुद्धिर्वा तस्या अपि आत्मनः सकाशादुत्पन्नत्वात् विज्ञानमयकोशत्वेन तदावरकत्वाच्च ॥१४४॥
Śloka 143
All Ślokas
Śloka 145