विवेकचूडामणि
Śloka 147
Glossary
View Book
Verse
श्लोकः
Expand all
1
बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरंकुर:,
2
रागः पल्लवमम्बु कर्म तु वपुः स्कंधोऽसवःशाखिकाः ।
3
अग्राणीन्द्रिय-संहृतिश्च विषयाः पुष्पाणि दुःखं फलं,
4
नानाकर्म-समुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥ १४७॥
Śloka 146
All Ślokas
Śloka 148
Commentary
व्याख्या
Expand all
1
संसृतिभूमिजस्य संसृतिरेव भूमिः वृक्षः तस्य बीजं मूलकारणं तमः अज्ञानं ।
2
तुरवधारणे अज्ञानमेव मूलं नात्यदित्यर्थः ।
3
देहात्मधीरंकुरः देहात्मानिका अध्यियः अज्ञानैककिनत्वान्तल्वात् ।
4
रागः पल्लवं किसलयः अंकुरोत्पत्यनन्तर-काल्किात्वात्-पल्लवस्य ।
5
शरीरात्मधी-समनन्तरं शरीरानुकूले आत्मानुकूलवञ्जनात् रागः इच्छा वैषयिकी ।
6
अम्बु जलं वृक्षवृद्धिहेतु कर्म तु कर्मैवेत्यर्थः । तुः पूर्ववत् ।
7
"कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते," इत्युक्तेः ।
8
कर्म पुष्पापुष्पात्मकं वपुः स्कंधः यतःशाखा उत्पद्यन्ते स मध्यभागः वृक्षे स्कंध इत्युच्यते ।
9
असवः पंच प्राणादयो वायवः स्कंधतः प्रसूमरत्वात् शाखिकाः शाखा एव शाखिकाः ।
10
अग्राणीन्द्रिय-संहितः इन्द्रियाणां संहितः इन्द्रियसंहितः इन्द्रियसमुदायः चक्षुरादीनां वागादीनां च इन्द्रियाणां प्राणाधीनस्थितिकत्वात् ।
11
इदं तु इन्द्रियप्राणसंवादश्रुतौ प्रसिद्धं । अग्राणां शाखाधीनस्थितिकत्वसिद्धमेव ।
12
विषयाः शब्दस्पर्श-रूपरसगंधाः अग्रसंवन्धात् पुष्पाणि कुसुमानि ।
13
दुःखं फलं विषयेन्द्रिय-संवन्धानन्तरकालिकत्वात् ।
14
शाखाग्रेषु पुष्पोत्पत्यनन्तरं हि फलं जायते ।
15
यद्यपि सुखमपि फलत्वेन वक्तव्यमिति प्रतीयेत पूर्वं कर्मशब्देन पुष्पापुष्पप्रयकर्मणः उक्तत्वात् सुखस्यापि कदाचिदनुभवाच्च
16
अथापि वैषयिकसुखमपि दुःखमिव विवेकिभिः परिगण्यते ।
17
तत्साधनार्थं तत्राशे च दुःखस्येवानुभवात्
18
"ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषुरमते बुधः" इति गीतायामुक्तेः
19
अत एव एकविंशतिदुःखमध्ये षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः शरीरे सुखं दुःखं चेति दुःखत्वेन सुखमपि परिगणितं न्यायशास्त्रे ।
20
तच्च दुःखं नानाकर्म-समुद्भवं नाना बहुविधानि यानि कर्माणि तेभ्यः समुद्भवो यस्य तत् नानाकर्म-समुद्भवं ।
21
अतो हेतोः कर्मणः बहुविधत्वात् फलं स्वयमपि बहुविधं बहुप्रकारैः ।
22
अत्र वृक्षेऽस्मिन् पक्षी जीवः भोक्ता दुःखरूप-फलानुभवीत्यर्थः ।
23
तथाच अज्ञानमूलकः दुःखैकफलकः अयं संसारवृक्षः विषवृक्षवद्धेति भावः ।
24
अनेन देहात्मधीरूप-बंधस्य रागद्वेषादिदोषोत्पादन-द्वारा धर्माधर्म-रूपकर्महेतुतया, तेन च कर्मणा शरीरपरंपरया तत्राहभिमानः इत्येवं रूढमूलतया स्थितिरिति "कथं प्रतिष्ठास्य" इत्यस्य प्रश्नस्य उत्तरं दत्तं भवति ॥ १४७॥
Śloka 146
All Ślokas
Śloka 148