विवेकचूडामणि
Śloka 148
Glossary
View Book
Verse
श्लोकः
Expand all
1
अज्ञानमूलोयमनात्मबन्धो नैसर्गिकोनादिरनन्त ईरितः ।
2
जन्माप्ययव्याधि-जरादिदुःख-प्रवाहतापं जनयत्यमुष्य ॥ १४८॥
Śloka 147
All Ślokas
Śloka 149
Commentary
व्याख्या
Expand all
1
अयं सर्वलोकप्रसिद्धः अनात्मबन्धः शरीरादनात्मदात्म्याभिमानः अज्ञानमूलः अज्ञानं स्वस्वरूपाज्ञानं मूलं हेतुर्यस्य सः ।
2
नैसर्गिकः पूर्वपूर्वाभ्यास-जन्यसंस्कारहेतुकः ।
3
अनादिः अनादिज्ञानकार्यत्वात् किंस्मयसमवे उत्पत्ति इति वक्तुं ज्ञातुं च अशक्यः ।
4
अनन्तः ज्ञानं विना अंतः नाशः न विद्यते अस्येत्यनन्तः ।
5
ईरितः अभियुक्तैरिति शेषः । "नान्तो न चादिः" इति स्मृतेः ।
6
एतादृगयं बन्धः । अमुष्य जीवस्य जन्माप्यय-व्याधि-जरादिदुःख-प्रवाह-तापं
7
जन्म उत्पत्तिः शरीरस्य, अप्ययः मरणं, व्याधिः रोगः, जरा वार्धक्यं आदिषु भौतिकादिदैविकतापापरिग्रहः ।
8
तैर्जन्यानि यानि दुःखानि तेषां प्रवाहः उपर्युपरि संनिपातः तेन तापं उद्वेगं जनयति उत्पादयति ।
9
पातिमितिपाठे स्पष्टोऽर्थः प्रवाहपातमिति ॥ १४८॥
Śloka 147
All Ślokas
Śloka 149