विवेकचूडामणि
Śloka 151
Glossary
View Book
Verse
श्लोकः
Expand all
1
कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति ।
2
निजशक्ति-समुत्पन्नैः शैवलपटलैरिवाम्बु वापीस्थम् ॥१५१॥
Śloka 150
All Ślokas
Śloka 152
Commentary
व्याख्या
Expand all
1
"सलिल एको द्रष्टा" इत्यादिश्रुतिभिः निर्मलजलवत्स्वच्छस्य आत्मनः स्फुटतया कुतो न भानमिति शंकायां
2
तत्रापि तदेव जलं दृष्टान्तयन् स्फुटाभानहेतुमाह कोशैरिति
3
निजशक्तिसमुत्पन्नैः — निजा स्वकीया स्वस्मिन्कल्पिता अविद्या तया समुत्पन्नैः जातैः
4
अन्नमयाद्यैः वक्ष्यमाणैः पञ्चभिः कोशैः आवरकैः आनन्दमयान्तैः
5
स्वोपलब्धि-प्रतिबन्धकोपलब्धि-विषयैः संवृतः आवृतः आत्मा न भाति न विविक्ततया स्फुटं भासते
6
तत्र दृष्टान्तः — निजशक्तिसमुत्पन्नैः निजगत-द्रवत्वधर्म-समुत्पन्नैः शैवलपटलैः
7
वापीस्थं अम्बिव — यथा वापीगतं जलं तत एव जातैः शैवालैः संवृतं आच्छादितं न स्फुटतया भाति तथा इत्यर्थः ॥१५१॥
Śloka 150
All Ślokas
Śloka 152