विवेकचूडामणि
Śloka 150
Glossary
View Book
Verse
श्लोकः
Expand all
1
श्रुतिप्रमाणैकमतेस्स्वधर्मनिष्ठा-तयैवात्मविशुद्धिरस्य ।
2
विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः ॥ १५०॥
Śloka 149
All Ślokas
Śloka 151
Commentary
व्याख्या
Expand all
1
श्रुतिरेव प्रमाणं श्रुतिप्रमाणं "तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि" इति गीतावचनात् ।
2
तत्र श्रुतिप्रमाणे एका अनन्यसकता मुख्या मतिः बुद्धिः यस्य सः श्रुतिप्रमाणैकमतिः तस्य स्वार्थयसे कर्तव्यकर्मविषये श्रुत्येकशरणस्येत्यर्थः ।
3
स्वधर्मनिष्ठा स्वस्य धर्मः स्वधर्मः स्वजातेस्य आश्रमस्य च विहितः कर्मकलापः स्वधर्मः ।
4
तत्र निष्ठा नितरां स्थितिः ऐदंपर्येण अनुष्ठानस्वधर्मनिष्ठा तस्यैव स्वधर्मे अनन्यासक्ततया स्थित्यैव ।
5
अस्य साधकस्य जीवस्य आत्मविशुद्धिः आत्मनः अन्तःकरणस्य विशेषेण शुद्धिः पापक्षयः
6
"ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । कषायपक्तिः कर्माणि ज्ञानं तु परमागतिः । कषाये कर्मिभिः पक्वे ततो ज्ञानं प्रवर्तते" इतिप्रमाणानुसारेण
7
विशुद्धा नष्टरागद्वेषादि-सकलविषदोषा बुद्धिः यस्य तस्य विशुद्धबुद्धेः ।
8
परमात्मवेदनं अभेदेन परमात्मसाक्षात्कारः ।
9
तेनैव परमात्मवेदनेनैव संसारसमूलनाशः समूलं नाशः समूलनाशः संसारस्य समूलनाशः संसारसमूलनाशः ।
10
अज्ञानादिदुःखान्तस्य बन्धस्य अत्यन्तमुच्छेद इत्यर्थः ॥ १५०॥
Śloka 149
All Ślokas
Śloka 151