विवेकचूडामणि
Śloka 153
152
All
154
Glossary
विवेकचूडामणि
Śloka 153
100%
Commentary — व्याख्या
1
पञ्चानामपि — अपिशब्दः कालत्येन निषेधार्थः
2
कोशानां आवरकानां अन्नमयाद्यानन्दमयान्तानां श्रुतयुक्त्या अपवादे निषेधे कृते सति
3
नित्यानन्दैकरसः — उत्तिन्नाशञ्चर्य-दुःखासंभ्रा-नन्दैकस्वभावः
4
प्रत्यग्रूपः — स्वान्तरः स्वयंज्योतिः पराप्रकाशः केवलज्ञानस्वरूपः
5
परः सर्वोत्कृष्टः अयमात्मा शुद्धः स्वाभाविकागन्तुक-मलासंस्पृष्टः
6
विभाति विशेषेण भाति अनात्मासंसृष्टतया भासत इत्यर्थः ॥१५३॥
152
All
154
En