विवेकचूडामणि
Śloka 154
153
All
155
Glossary
विवेकचूडामणि
Śloka 154
100%
Commentary — व्याख्या
1
विदुषा शास्त्रजन्यज्ञानवता पुरुषेण
2
बन्धमुक्तये अध्यासनिवृत्तये
3
आत्मा च अनात्मानश्च आत्मानात्मनः तेषां विवेकः असंकीर्णतया ज्ञानं कर्तव्यं यत्नात् संपादनीयम्
4
तेनैव आत्मानात्म-विवेचनेनैव स्वं स्वस्वरूपं सचिदानन्दं कालत्रयाबाध्यं ज्ञानं आनन्दं विज्ञाय साक्षात्कृत्य
5
उक्तं हि द्वितीयश्लोके आत्मानात्मविवेचनं स्वनुभव इति
6
आनन्दीभवति — आनन्दः अस्यास्तीति आनन्दी निरतिशय-सार्वदिक-सुखवान्भवतीत्यर्थः ॥१५४॥
153
All
155
En