विवेकचूडामणि
Śloka 173
Glossary
View Book
Verse
श्लोकः
Expand all
1
सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित् सकलप्रसिद्धेः ।
2
अतो मनःकल्पित एव पुंसः संसार एतस्य न वस्तुतोऽस्ति ॥१७३॥
Śloka 172
All Ślokas
Śloka 174
Commentary
व्याख्या
Expand all
1
सुषुप्तिकाले सुषुप्त्यवस्थायां मनसि प्रलीने परिणामान् विहाय कारणात्मना अवतिष्ठमाने नैवास्ति किञ्चित् जगत् ।
2
सकलप्रसिद्धेः सर्वप्राण्यनुभवात् न किञ्चिदेवेदिपमिति ।
3
अतः एतस्य वद्धस्य पुंसः संसारः मनःकल्पित एव ।
4
वस्तुतः परमार्थतः नास्ति मनसस्तले स्वप्नजाग्रतोः संसारोपलब्धेः मनसः असत्वे सुषुप्तावनुपलम्भात् ।
5
मृदन्वय्यतिरेकानु-विधायि-घट इव मृद्व्यतिरेकेण मनोव्यतिरेकेण संसारो नास्तीति
6
तस्मिन्विनष्टे इति यदुक्तं पूर्वं तदुपपादितम् ॥१७३॥
Śloka 172
All Ślokas
Śloka 174