विवेकचूडामणि
Śloka 172
Glossary
View Book
Verse
श्लोकः
Expand all
1
स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या भोक्त्रादि विश्वं मन एव सर्वम् ।
2
तथैव जाग्रत्यपि नो विशेषः तत्सर्वमेतन्मनसो विजृम्भणम् ॥१७२॥
Śloka 171
All Ślokas
Śloka 173
Commentary
व्याख्या
Expand all
1
प्रथमेनान्वयमाह, अर्थशून्ये शरीरान्तर्वर्तिनाडीषु मनसःसञ्चार-दशायां स्वप्नावस्थेति श्रूयां बोधितत्वात्
2
केशतोऽपि सूक्ष्मासु तासु नाडीषु गिरिनदी-समुद्रादीनां तदा प्रतीयमानानां असंभाविततया
3
चक्षुरादीनां तदा उपरतव्यापारत्वात् तद्वारा मनसः बहिर्निर्गमनाभावात् शरीराद्बहिर्वर्तमानानां प्रतीत्यभावाच्च
4
केवलं मनोवर्तिवासनावशात् तदा अर्थः बाह्या इव प्रतीयन्ते नतु वस्तुतः इति अर्थशून्ये इत्युक्तम् ।
5
तथाविधे स्वप्ने स्वशक्त्या वासनाभिः केवलं स्वस्मिन् आत्मप्रतिफलनसामर्थ्येन च सर्वं भोक्त्रादि विश्वं जगत् मन एव सृजति निमिमीते ।
6
यद्यपि जीवः भोक्ता वर्तत इति भोक्त्रादित्वेन कथमिति शंका भवितुमर्हति ।
7
तथापि भोग्याभावे भोक्तृत्वाभावात् भोग्यसृष्टिहेतोः मनस एव निरूपकदानेन भोक्तृत्वमपि मन्तव्यम् ।
8
तथैव स्वप्नवदेव जाग्रत्यपि जाग्रदवस्थायामपि मन एव सर्वं सृजति नो विशेषः ।
9
तत् तस्मात् सर्वमेतत् जगत् मनसो विजृम्भणं विलासः ॥१७२॥
Śloka 171
All Ślokas
Śloka 173