विवेकचूडामणि
Śloka 175
174
All
176
Glossary
विवेकचूडामणि
Śloka 175
100%
Commentary — व्याख्या
1
देहः आदिः यस्य सः, सर्वेषां विषयश्च शब्दस्पर्शादिः पुत्रादिश्च देहादिसर्वांशासौ सर्वविषयश्च ।
2
शब्दादौ रागस्यापि देहमूलकत्वात् देहादीति ।
3
तस्मिन् देहादिसर्वविषये ।
4
रागं परिकल्प्य दृढं जनयित्वा तेन रागेण गुणेन रज्जुवा पशुवत् पशुमिव पुरुषं बध्नाति स्वेप्सित-परमपद-प्राप्तयोग्यं करोति ।
5
पश्चादनन्तरं तत् यद्बन्धं जनयामास तत् मन एव ।
6
अत्र देहादौ विषये वैरस्यं वैरागर्यं अनासक्तिं विषवत् विष इव अनर्थकरत्वदर्शापनेन सुविधाय सुष्ठूत्पाद्य
7
एनं पुमांसं बन्धात् देहाद्यभिमान-लक्षणात् विमोचयति विशेषेण मोचयति ।
8
सदापि ऋणिणे संस्थया पुनर्यथा देहादिकं नाभिमन्यते तथा करोतीत्यर्थः ॥१७५॥
174
All
176
En