विवेकचूडामणि
Śloka 176
Glossary
View Book
Verse
श्लोकः
Expand all
1
तस्मान्मनः कारणमस्य जन्तोः बन्धस्य मोक्षस्य च वा विधाने ।
2
बन्धस्य हेतुः मलिनं रजोगुणः मोक्षस्य हेतुः विरजस्तमस्कम् ॥१७६॥
Śloka 175
All Ślokas
Śloka 177
Commentary
व्याख्या
Expand all
1
तस्मात् पूर्वोक्तहेतोः अस्य जन्तोः प्राणिनः बन्धस्य मोक्षस्य च वा विधाने उत्पादने ।
2
मनःकारणं "मन एव मनुष्याणां" इतिश्रुतेः ।
3
एकस्य विरुद्धद्वयहेतुकथंतायां आह रजोगुणः, प्रवृत्तयः बहुविधाः रजः-कार्याः इति बहुवचनम् ।
4
नानाविधतया बहिर्मुखत्वापादकैः कामक्रोध-लोभादि-रजोधर्मैरिति वा अर्थः ।
5
मलिनं कलुषितं मनः बन्धस्य हेतुः ।
6
शुद्धं निर्मलं, तत्र हेतुमाह हेतुः रजसस्तमसश्च विनिर्मुक्ता रजसा तमसा च नितरारहितं मनः मोक्षस्य हेतुरित्यर्थः ।
7
अतो मनसः एकत्वेऽपि गुणभेदान् विरुद्धद्वय-हेतुत्वं कालभेदेन अविरुद्धमिति भावः ॥१७६॥
Śloka 175
All Ślokas
Śloka 177