विवेकचूडामणि
Śloka 178
Glossary
View Book
Verse
श्लोकः
Expand all
1
मनो नाम महाव्यग्रः विषयारण्यभूमिषु ।
2
चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥१७८॥
Śloka 177
All Ślokas
Śloka 179
Commentary
व्याख्या
Expand all
1
विषयारण्यभूमिषु विषया एव अरण्यभूमयः अनेकार्थसंकुलत्वात् "विषयांस्तेषु गोचरन्" इतिश्रुतेश्च ।
2
तासु मनो नाम महाव्याघ्रः मनस्संज्ञक-चण्डपुण्डरीकः चरति संचरति ।
3
परांचि खानीति श्रुतेः विषयप्रवणता मनसः स्वभावः निम्नभूमिगमनमिव जलस्य ।
4
ततः "वध्याय विषयासक्त" मिति श्रुतेः जीवस्य महानर्थसंभवति ।
5
मोक्षार्थं मनो निविषयं कर्तुं विषयेभ्यः निवर्तयितुं विवेकवैराग्ये हेतु उक्त्वा
6
रत्ने यदि शिलाबुद्धिः जायते वा भयं ततः । समीचीनतबुधि-नेति नोपादेयत्वधीरपि ।
7
इति वस्तुविचारवत् भयस्यापि यतो भयं ततो निवृत्तिहेतुत्वात् तेषु भयमाह ।
8
मन इति । दयया भयोत्पादनद्वारा तेभ्यो निवर्तयति ॥१७८॥
Śloka 177
All Ślokas
Śloka 179