विवेकचूडामणि
Śloka 177
Glossary
View Book
Verse
श्लोकः
Expand all
1
विवेक-वैराग्य-गुणातिरेकाच्छुद्धत्वमासाद्य मनो विमुक्त्यै ।
2
भवत्यतो बुद्धिमतो मुमुक्षोस्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥१७७॥
Śloka 176
All Ślokas
Śloka 178
Commentary
व्याख्या
Expand all
1
विवेकच्च वैराग्यं च विवेकवैराग्ये ते एव गुणौ सत्फलप्रदधर्मौ तयोरतिरेकः अतिशयः विवेकादृढ्यं वैराग्ये तीव्रतरत्वं च ।
2
तस्मात् विवेकवैराग्यगुणातिरेकात् ।
3
ब्रह्म सत्यं जगन्मिथ्येत्येवं निश्चये मिथ्यावस्तुनि कामानुदयात् आब्रह्मलोकं वैराग्यं प्रकृष्यते ।
4
कामानुपहतेरेव शुद्धिशब्दार्थत्वात् ।
5
तदुपायगुण्युक्तं मनः शुद्धत्वं निर्मलत्वं आसाद्य प्राप्य विमुक्त्यै बहिर्मुखत्वशून्यतया ऐदंपर्येण ब्रह्मसंस्थं आत्यंतिकबन्ध-निवृत्ते हेतुर्भवति ।
6
अतो विवेकवैराग्यातिरेक-विशिष्टमनसो विमुक्ति-हेतुत्वात् ।
7
बुद्धिमतः बुद्धिरस्यास्तीति बुद्धिमान् तस्य उपायकुशलस्येत्यर्थः मुमुक्षोः मोक्षरूपफलेच्छावतः
8
अग्रे आदौ ताभ्यां विवेकवैराग्याभ्यां दृढाभ्यां आशिथिलाभ्यां प्रकृष्यमाणाभ्यां च भवितव्यम्
9
उपायेच्छां प्रति फलेच्छायाः कारणत्वात् ।
10
मोक्षेच्छावान् पुमान् विवेकवैराग्ये आदौ प्रयत्नेन संपादयेत् चेत् फलमवर्जनीयमिति कथितं भवति ॥१७७॥
Śloka 176
All Ślokas
Śloka 178