विवेकचूडामणि
Śloka 180
Glossary
View Book
Śloka 179
All Ślokas
Śloka 181
Commentary
व्याख्या
Expand all
1
प्राणगुणैः विमोहा स्वावास्तरूपं ज्ञातुसमर्थं कृत्वा लेप्येव देहेन्द्रिय-प्राणगुणैर्देहेन्द्रियप्राणेषु अहमिति तद्गुणेषु तद्धर्मेषु ममेति निवश्य ।
2
अजस्रं सततं स्वकृत्येषु लौकिक-वैदिक-कर्मेषु फलोपभुतिषु तत्तत्कर्मजन्यफलभोगेषु भ्रमयति ऊर्ध्वमधश्च मनो नयति ।
3
"कुर्वते कर्म भोगाय कर्तुं च भुंजते" इत्युक्तेः ।
4
उक्तं हि श्रुत्या "आत्मानं चेद्विजानीयात् अयमस्मीति पुरुषः किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत्" इति ।
5
अतः विज्ञातस्वकासंग-चिदानन्दरूपः पुरुषः नैव किञ्चित्कामयते न वा कर्माणि करोति ।
6
ततः कर्तृत्वं वा भोक्तृत्वं वा देहेन्द्रियाद्यभिमाननिवश्नम् ।
7
स चाभिमानः मनोमूलः सुषुप्तावदर्शनात् तदा मनसो लीनत्वात् ।
8
अतः स्वरूपसत्याः अविद्यायाः मनो विना बन्धहेतुत्वाभावात् सर्वबन्धहेतुत्वं मनस एवेति भावः ॥१८०॥
Śloka 179
All Ślokas
Śloka 181