विवेकचूडामणि
Śloka 181
180
All
182
Glossary
विवेकचूडामणि
Śloka 181
100%
Commentary — व्याख्या
1
रजस्तमोदोषवतः रजश्च तमश्च रजस्तमसी ते एव दोषौ लावस्यस्त इति तद्धान् तस्य रजस्तमोदोषवतः आवरणविक्षेपहेतुभूत-दोषद्वय-विशिष्टस्य
2
अत एव अविवेकिनः आत्मानात्मभेदज्ञानरहितस्य
3
पुरुषस्य अध्यासयोगात् अनात्मस्वात्मबुद्धियोगात्, संसृतिः जन्ममरण-प्रवन्धा-विच्छेदः ।
4
संसृतित्वाभ्यासः मनोमूल इत्याह अध्यासबन्धः इति ।
5
अध्यासरूपो यो बन्धः स तु सोऽपि, शरीरेन्द्रियादयः मनसा प्रसूयन्ते इति "मनः प्रसूते" इत्यत्रोक्तम् ।
6
इदानीं तत्र अध्यासोऽपि अमुनैव कल्पितः जनितः इत्यपिशब्दार्थः ।
7
ततः जन्ममरण-प्रवन्धाविच्छेद-लक्षण-संसृतिहेतुमूताध्यास-हेतुत्वेन ।
8
एतत् मन एव जन्मादिदुःखस्य जन्ममरण-जरा-रोगादि-जन्य-सकल-विघदुःखस्य निदानं आदिकारणम् ॥१८१॥
180
All
182
En