विवेकचूडामणि
Śloka 188
Glossary
View Book
Verse
श्लोकः
Expand all
1
अनादिकालोयमहंस्वभावो जीवसमस्त-व्यवहारबोढा ।
2
करोतिकर्माण्यनु-पूर्वबासनः पुण्यान्यपुण्यानि च तत्फलानि ॥१८८॥
Śloka 187
All Ślokas
Śloka 189
Commentary
व्याख्या
Expand all
1
यद्यपि प्रकृतेर्विकार इत्युक्तत्वात् सादित्वं वक्तव्यम् ।
2
अथापि महाप्रलयेऽपि कारणात्मना अव्यक्ततया वर्तमानत्वात्
3
पूर्वकर्मवासनाश्रय-बुद्धेः अत्यन्तनाशे पुनःसृष्टेरनुपपत्तेः
4
सृष्टिकाले एव 'अनेन जीवेनात्मना' इति परदेवतया नामरूपव्याकरणार्थं ईक्षणश्रुतेश्च
5
आविदेहैकैवत्यं आत्यंतिकनाशे पुनःसंसारकारणभूतायाः बुद्धेरपि अनादित्वं अवश्यं वक्तव्यमिति
6
तत्प्रयोजं-देहेन्द्रियाद्यभिमानोऽपि स्वप्रभागवाकालत्व-व्यापक-स्वसजातीय-कत्वरूपानादित्वान् भवति ।
7
अनादिः कालः यस्य अनादिकालः इदमादिना आरब्धमिति वक्तुमशक्यत्वात् ।
8
अयं देहेन्द्रियादिषु अहिमितस्वभावः अभिमानः वासना यस्य सः अहंस्वभावः
9
जीवः समस्तव्यवहारबोढा "विज्ञानं यज्ञं तनुते" इतिश्रुते: ।
10
कर्माणि तनुतेऽपि च इतिश्रुतेऽपि च । लौकिक-वैदिकसर्वव्यवहारकर्ता ।
11
तदुपपादयति अनुपूर्वबासनः अनुगाताः पूर्वबासनाः यं सः अनुपूर्वबासनः "तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च" इतिश्रुते: ।
12
"पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन" इति च श्रुते: ।
13
पुण्यानि शास्त्रविहितानि अपुष्यानि तन्निषिद्धानि विहित-निषिद्धान्यानि भोजनस्वपादीनि च करोति ।
14
भोक्तृत्वं वक्ति तत्फलानि तेषां कृतविहित-निषिद्धकर्मणां फलानि ।
15
विचित्रासु देवितयंङ्मनुष्यादिचतुरशीति-लक्षप्रभेदासु योनिषु व्रजन् भुक्तेऽपि सुख-
Śloka 187
All Ślokas
Śloka 189