विवेकचूडामणि
Śloka 187
Glossary
View Book
Verse
श्लोकः
Expand all
1
अनुव्रजञ्चितप्रतिबिम्बशक्तिः विज्ञानसंज्ञः प्रकृतेर्विकारः ।
2
ज्ञानक्रियावान् अहिमित्यजस्रं देहेन्द्रियाद्यैर्विभमन्यते भृशम् ॥१८७॥
Śloka 186
All Ślokas
Śloka 188
Commentary
व्याख्या
Expand all
1
भूतपंचकसत्व-समष्टिकार्यत्वाद् बुद्धेः स्वच्छतया तत्र चिदवश्यं प्रतिबिम्बत इति
2
अनुव्रजन् यः चितेः चिद्रूपस्य परमात्मनः प्रतिबिम्बः जीवः तस्य शक्तिर्भासिकास्वरूपा यस्य
3
भासकाप्रतिबिम्बस्यापि भासकत्वात्, प्रसिद्धं हि लोके दर्पणादिवित्बिम्बितसूर्यप्रतिबिम्बस्यापि सूर्यप्रतिदेशयोग्यत्व-काराव्रृत-भूमिवरादिगत-वस्तुभासकत्वं
4
इति अनुव्रजञ्चितप्रतिबिम्ब-शक्तिः विद्यनुप्रसाचिद्धच्छिन्नचितप्रतिबिम्वविशिष्टः
5
विज्ञानसंज्ञः विज्ञानसंज्ञा यस्य सः "विज्ञानं यज्ञं तनुते" इतिश्रुतेः ।
6
प्रकृतेः मूलप्रकृतेः अविद्यायाः विकारः सूक्ष्मभूतपंचक-सत्वसमष्टिकार्यत्वात् सूक्ष्मभूतपंचकस्य अविद्या-कार्यतया परंपरया अविद्याकार्यत्वमस्य कोशस्य ।
7
ज्ञानक्रियावान् ज्ञानं च विषयविचार-ध्यान-लोकान्तरगमनादिरूपा ज्ञानक्रिये ते अस्य इति ज्ञानक्रियावान्
8
देहेन्द्रियादिषु उक्तं हि पूर्वं "अन्तःकरणमेतेषु चक्षुरादिषु वष्मणि । अहिमित्यभिमानेन तिष्ठत्याभास तेजसा" इति ।
9
अतः जीवस्य योभिमानः देहादौ तस्य बुद्धिं विना असंभवात् जीवत्वस्यापि बुध्युपाधिनिबन्धनत्वात् अयं कोश एव आध्यासिकतादात्म्यापत्तया जीवाभिन्नत्वेन विवक्षित इति
10
अजस्रं सर्वदा जाग्रत्स्वप्नयोः भृशं अत्यन्तं अहिमित्यभिमन्यते ।
11
अहं मनुष्यः स्थूलः गच्छामि तिष्ठामि लंघयामि अहं पश्यामि अहं श्रुणोमि अहमुच्छ्रवसिमि निश्वसिमीत्यादिप्रकारेण तादात्म्याभिमानवान् भवतीति ज्ञानवत्वमुपपादितम् ॥१८७॥
Śloka 186
All Ślokas
Śloka 188