विवेकचूडामणि
Śloka 190
Glossary
View Book
Verse
श्लोकः
Expand all
1
देहादिनिष्ठाश्रम-धर्मकर्म-गुणाभिमानः सततं ममेति ।
2
विज्ञानकोशोयमतिप्रकाशः प्रकृष्टसान्निध्य-वशात्परात्मनः ।
3
अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥१९०॥
Śloka 189
All Ślokas
Śloka 191
Commentary
व्याख्या
Expand all
1
देहादीति । आदिपदेन चक्षुरादीन्द्रिय-प्राणपरिग्रहः ।
2
तन्निष्ठाः ये आश्रमाः ब्रह्मचर्यादयः धर्माः मनुष्यत्व-ब्राह्मणत्वादयः
3
कर्माणि स्थितिगतादीनि लौकिकानि मन्त्रोच्चारणादीनि वैदिकानि
4
गुणाः सौगुण्यवीर्यादयो वा एतेषु सततं ममेत्यभिमानः
5
आत्मप्रतिफलनानुविघा बुद्धिः इन्द्रियेषु प्राणेषु देहे च संबध्यमाना, तदीयधर्मानात्मन्यारोपयति ।
6
स्वतो जडाया अप्यस्याः चेतनबदेवस्थितो निमित्तमाह,
7
परात्मनः "चेतनश्चेतनानां" इति श्रुत्या केवलनिर्मलसंग-निष्क्रियस्य परमात्मनः प्रकृष्टसान्निध्यवशात्
8
परमुखनिरपेक्षप्रतिफलन-महिम्ना अयं विज्ञानकोशः बुद्धिरूपकोशः अतिप्रकाशः
9
अतिप्रेतेषु इन्द्रियेषु साक्षाच्चैतन्य-संवन्धाभावादित्यभिप्रायः ।
10
अतः प्रकृष्टसान्निध्यस्य सत्वात् अस्य आत्मनः एषः कोशः उपाधिः जीवत्वे भेदहेतुः भवति ।
11
कर्तृत्व-भोक्तृत्व-निवासभूत-जीवत्वधर्माश्रय-मूलहेतुः ।
12
यदात्मधीः यस्मिन् आत्मधीः अहिमिति मतिमान् भ्रमेण भ्रान्त्या संसरति कर्तृत्वादिदुःखमनुभवति ॥१९०॥
Śloka 189
All Ślokas
Śloka 191