विवेकचूडामणि
Śloka 191
Glossary
View Book
Verse
श्लोकः
Expand all
1
यो यं विज्ञानमयः प्राणेषु हृदिस्फुरत्स्वयंज्योतिः ।
2
कूटस्थस्सात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥१९१॥
Śloka 190
All Ślokas
Śloka 192
Commentary
व्याख्या
Expand all
1
पाषाणे वृक्ष इतिवत् सामीप्यसप्तमी ।
2
प्राणेषु चक्षुरादिसमीपे ।
3
एतेन अहमिति प्रतीतिविषयत्वस्य बहुषु सत्वात् "कतम आत्मा" इति जनकप्रश्नोत्तरवाक्ये "प्राणेषु" इति पदेन प्राणशब्दबोधितेन्द्रिय-मुख्य-प्राणत्व-मात्मनो नास्तीति कथितं भवति ।
4
प्राणसामीप्यं बुद्धेरयस्ति अतः व्याबर्तयति हृदिस्फुरत्स्वयंज्योतिरिति
5
हृदयपुण्डरीकावच्छिन्नबुद्धौ प्रकाशमानः सर्वप्रकाशः यञ्ज्योतिः चैतन्यं सर्वाविभासकं तद्रूपः
6
योयं विज्ञानमयः आत्मोक्षं भूत्वैजनेति तत्प्रचुरत्वान्मात्मत्वं । स्वार्थे मयड्वा विज्ञानस्वरूप इत्यर्थः ।
7
ईदृगात्मा कूटस्थः कूटवतिष्ठतीति कूटस्थः अयोघनवत् निविकारः सन्नपि
8
उपाधिस्थः उपाधौ ज्ञानक्रियावत्यां बुद्धौ तादात्म्येन आविधकेन वर्तमानः कर्ता भोक्ता भवति
9
यथा स्फटिके लौहित्यं भ्रमात् तथा ॥१९१॥
Śloka 190
All Ślokas
Śloka 192