विवेकचूडामणि
Śloka 194
193
All
195
Glossary
विवेकचूडामणि
Śloka 194
100%
Commentary — व्याख्या
1
परात्मनः असंसारितया सर्वोत्कृष्टस्य परमात्मनः जीवभावः जीवत्वं भ्रमेण वा भ्रान्त्या वा अन्यथापि वा वस्तुतो वा अस्तु
2
तदुपाधेः विज्ञानमयकोशस्य "अनादिकालोयमहंस्वभावः जीव" इत्युक्ततया अनादित्वात्
3
आत्मन इव अनादेः कस्यापि नाशः न संभवति
4
अतः विज्ञानमयप्रयोजकोपाधेरनादित्वात् नाश-संभवाच्च अस्य परात्मनः जीवभावोपि नित्यो भवति न नश्यति
5
संसृतिः जीवभावनित्यत्वे नित्यते न निवर्तेत नैव नश्येत्
6
तत् तस्मात् मोक्षः कथं मे मम संसारनिवृत्तिः कथं श्रीगुरो वद उपदिश ॥१९४॥
193
All
195
En