विवेकचूडामणि
Śloka 193
Glossary
View Book
Verse
श्लोकः
Expand all
1
उपाधिसंबन्धवशात्परात्माप्यु-
2
पाधिधर्मानभिभाति तद्गुणः ।
3
अयोविकारानविकारिवह्निवत्
4
सदैकरूपोपि परःस्वभावात् ॥१९३॥
Śloka 192
All Ślokas
Śloka 194
Commentary
व्याख्या
Expand all
1
अयोविकारान् अयसः विकाराः अयोविकाराः दीर्घत्व-वर्तुलत्वादयः तान् अविकारिवह्निवत्
2
वस्तुतः तादुषधर्मशून्य-वह्निरिव अयसि दीर्घे दीर्घो वह्निरिति वर्तुले वर्तुल इति भ्राम्यन्ति लोके ।
3
तथा परात्मापि उपाधिसंबन्धात् परात्मापि तथा उपाधिस्वप्रकाश्येनापि अविद्यया कल्पितः यः तादात्म्यरूपसंबन्धः तद्वशात्
4
उपाधिधर्मानानुभवन् "ध्यायतीव लेलायतीव" इतिश्रुतेः बुद्धौ ध्यायन्त्यां ध्यायतीव लेलायन्त्यां चलतीव इत्यर्थः श्रुतेः अनुसृत्य
5
तद्गुणः तद् उपाधिधर्मानानुभवन् अभाति अहं करोमि सुखी दुःखीत्यादिप्रकारेण ।
6
वस्तुतः सदा स्वभावात् स्वकीय-सच्चिदानन्दस्वरूपात् परः सर्वोपाधिशून्यः निर्गुणब्रह्म-मुक्तः स्वभावः प्रकृतिः यस्य एकरूपोपि विकारशून्योपि ।
7
प्रकाशके वह्नौ दृष्टान्ते परात्मनि च दाष्टान्तिके सर्वप्रकाशके विकारशून्यत्वेन एकरूपत्वं समानम् ॥१९३॥
Śloka 192
All Ślokas
Śloka 194