विवेकचूडामणि
Śloka 196
195
All
197
Glossary
विवेकचूडामणि
Śloka 196
100%
Commentary — व्याख्या
1
हे विद्वन् बुद्धिमन् त्वया सम्यक्पृष्टं ।
2
तत् पृष्टं यद्वस्तु तत् सावधानेन विषयान्तर-संचाररहित-मनसा श्रृणु श्रुत्वावधारयेत्यर्थः ।
3
भ्रान्त्या मोहितकल्पना मोहेन मोहश्च प्राप्तज्ञाय-मानताक-वस्तुः ज्ञानाभावः तामसः धर्मः
4
वस्तुतः निर्मलज्ञानस्वरूपत्वेपि अज्ञानजनितभ्रान्त्यादूरीभूतया मोहः पूर्वोक्तः तद्विशिष्टस्य पुरुषस्य या कल्पना स्वस्य असंसारिणोपि संसारिवत्कल्पना
5
सा प्रामाणिकी न भवति यथार्थां न भवति प्रमाणसिद्धा न भवतीत्यक्षरार्थः ।
6
भ्रमप्रयोज्यमोह-मूलकत्वात् मुग्धस्य सम्यग्ज्ञानासमर्थत्वात् ॥१९६॥
195
All
197
En